SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir भविष्यति । क्या नान्यथेयमान ॥ ततो जात सहसा राक्ष राक्षसीनाम् अन्तरम् अवकाशं विच्छेदं वा, राक्षस्यसन्निधानसमयमित्यर्थः॥१६॥ अहं त्विति । अतितनुः अतिसूक्ष्मतनुः। संस्कृतां प्रयोग सौष्टवलक्षणसंस्कारयुक्ताम् ॥ १७॥ गीर्वाणभाषया व्यवहारे दोषमाह-यदीति ॥ १८॥ अथ मानुपभाषया व्यवहर्तव्यत्वं निश्चिनोति-अवश्यमिति । अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः। शनैराश्वासयिष्यामि सन्तापबहुलामिमाम् ॥ १६॥ अहं त्वति तनुश्चैव वानरश्च विशेषतः। वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम् ॥ १७॥ यदि वाचं प्रदास्यामि द्विजाति रिव संस्कृताम् । रावणं मन्यमाना मां सीता भीता भविष्यति । वानरस्य विशेषेण कथं स्यादभिभाषणम् ॥१८॥ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत् । मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता ॥ १९ ॥ सेयमालोक्य मे रूपं जानकी भाषितं तथा । रक्षोभित्रासिता पूर्व भूयस्त्रासं गमिष्यति ॥ २० ॥ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी। जानमाना विशालाक्षी रावणं कामरूपिणम् ॥ २१ ॥ सीतया च कृते शब्दे सहसा राक्षसी गणः। नानाप्रहरणो घोरः समेयादन्तकोपमः॥ २२॥ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः। वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम् ॥ २३ ॥ गृह्य शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम् । दृष्ट्वा विपरिधावन्तं भवेयु भयशङ्किताः॥२४॥ मम रूपं च सम्प्रेक्ष्य वने विचरतो महत् । राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः॥२५॥ अत्र वाक्यस्य मानुपत्वं कोसलदेशवर्तिमनुष्यसंबन्धित्वं विवक्षितम् । तादृग्वाक्यस्यैव देवीपरिचितत्वात् ॥ १९॥ एवं मानुषभाषया व्यवहर्तव्यत्वं निश्चित्य संप्रति तयापि भाषयाऽनेन वानररूपेण पुरः स्थित्वाऽभिभाषणे दोषोऽस्तीति विचारयति-सेयमिति ॥२०॥ जानमाना जानाना । मुमागम आर्षः॥२१-२३॥ प्रशाखाः उपशाखाः। विपरिधावन्तं, मामिति शेषः ॥२४-२६॥ करिष्यामि । तस्य सुग्रीवस्यागमन व्यर्थम्, तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ १५ ॥ अन्तरमवकाशम् । तासामनवधानसमयमित्यर्थः ॥१६॥ अतितनुः सूक्ष्मः । संस्कृतो गीर्वाणाम् ॥ १७ ॥ संस्कृतभाषया व्यवहारे दोषमाशङ्कच मानुषभाषयैव व्यवहर्तव्यमिति निश्चिनोति-यदि वाचमित्यादिलोकद्वयन ॥ १८ ॥ १९ ॥ मानुषभाषया संभाषणेपि दोषोऽस्तीति विचारयति-सेयमिति । रूपं वानररूपम, भाषितं मनुष्यरूपेण भाषितं च ॥ २०॥ जानमाना |मन्वाना । शब्दम् आर्तरवं कुर्यात् ॥ २१-२३ ।। प्रशाखा उपशाखाः ॥ २५-२६ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy