________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
बा.रा.भू.
अहमिति । आश्वासयामि "वर्तमानसामीप्ये वर्तमानवद्वा" इति लट् ॥७॥८॥ दोषवत्त्वमुपपादयति-गते हीति ॥ ९॥ समाश्वासयितुं न्याय्यः, टी.मुं.का, सीतासन्देशकथनेनेति शेषः ॥ १०-१२॥ सीताऽब्रवीदच इत्यत्रेतिकरणं द्रष्टव्यम् ॥ १३ ॥ १४ ॥ भर्तारं सुग्रीवम् । व्यर्थम् अनाश्वास्य गमने । स०
अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टदुःखां दुःखाता दुःखस्यान्तमगच्छतीम् ॥ ७॥ यद्यप्यहमिमां देवी शोकोपहतचेतनाम् । अनाश्वास्य गमिष्यामि दोषवद् गमनं भवेत् ॥८॥ गते हि मयि तत्रेयं राजपुत्री यश स्विनी। परित्राणमविन्दन्ती जानकी जीवितं त्यजेत् ॥९॥ मया च स महाबाहुः पूर्णचन्द्रनिभाननः । समाश्वास यितुं न्याय्यः सीतादर्शनलालसः ॥१०॥ निशाचरीणां प्रत्यक्षमनर्ह चापि भाषणम् । कथं नु खलु कर्तव्यमिदं कृच्छ्रगतो ह्यहम् ॥११॥ अनेन रात्रिशेषेण यदि नाश्वास्यते मया । सर्वथा नास्ति सन्देहः परित्यक्ष्यति जीवितम् ॥ १२॥ रामश्च यदि पृच्छेन्मा किंमा सीताऽब्रवीद्वचः । किमहं तं प्रतिब्रूयामसम्भाष्य सुमध्यमाम् ॥१३॥ सीतासन्देशरहितं मामितस्त्वरया गतम्। निर्दहेदपि काकुत्स्थः क्रुद्धस्तीत्रेण चक्षुषा ॥१४॥ यदि चोद्योजयिष्यामि
भर्तारं रामकारणात् । व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति ॥ १५॥ तदागमनपर्यन्तं देव्याः प्राणानवस्थानादिति भावः ॥ १५॥ आश्वासयामि आश्वासयिष्यामि ॥ ७॥ दोषवत् कार्यहानिदोषवत् ॥ ८॥९॥ समाश्वामयितुं न्याय्यः, सीतासन्देशकथनेनेति शेषः ॥ १०॥ सीतासमाश्वासन च कष्टमित्याह-निशाचरीणामिति । तासां प्रत्यक्ष सीतया अभिभाषणमयुक्तम् अयोग्यम, अन इदं कार्य कथं कर्तव्यमित्येवं कृच्छ्रगतोऽहमस्मि ॥ ११ ॥ काल विलम्बश्च आश्वासनस्यायुक्त इत्याह-अनेनेति ॥ १२ ॥ सीतामब्रवीदित्यतिकरणं द्रष्टव्यम् ॥३॥ १४॥ यदि चेति । भर्तारं सुग्रीवमुद्योजयिष्यामि उद्योग,
स-आश्वासयामीति वर्तमानसामीप्यालउथै लट् । अथवा क्रियाप्रबन्धे कलियुक्तर्धात्वर्थमात्रे ल टुबन्योग्येऽर्थे लडथै भविष्यतीति लट उपपत्तेः । अन्त पारन् । नाधिगल्छन्तीम् । यहा दुःखस्य कर्मगि षष्ठी ।। दुःखं नहान्त बान्तं क्षणे क्षणे दुःखं नूतनयन्तमिति यावत् । तं रावगं प्रकारं वा । अधिगच्छती प्राप्नुवन्तीम् । रामाश्वासनपरतथा शेषेण चापयतस्तीर्थस्योत्तरश्लोक इव इतरेषां तदुत्तरक्कोकः साधक इस्यु भयन्याकरणे समूले इति ज्ञेयम् । अदृष्टदुःखो दुःखस्य नह्यन्तमधिगच्छतीम् इति पाठः ॥ ७॥
INT॥७॥
For Private And Personal