________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सेति । व्यपनीततन्द्री निरस्तजाड्या । हर्षविवृद्धसत्त्वा हर्षविकसितचित्ता । शुके शुक्लपक्षे ॥८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥ हनुमानपीत्यादि । विक्रान्तः पराक्रमशाली । सीतायास्त्रिजटायाश्च सर्वे सर्व
सा वीतशोका व्यपनीततन्द्री शान्तज्वरा हर्षविवृद्धसत्त्वा । अशोभतार्या वदनेन शुक्ले शीतांशुना रात्रि रिवोदितेन ॥ ८॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ ___ हनुमानपि विश्रान्तः सर्व शुश्राव तत्त्वतः। सीतायास्त्रिजटायाश्च राक्षसीनां चतर्जनम् ॥ १॥ अवेक्षमाणस्तां देवी देवतामिव नन्दने। ततो बहुविधा चिन्तां चिन्तयामास वानरः॥२॥ यां कपीनां सहस्राणि सुबहून्ययुतानि च । दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥३॥ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षता । गूढेन चरता ताव दवेक्षितमिदं मया ॥४॥राक्षसानां विशेषश्च पुरी चेयमवेक्षिता। राक्षसाधिपतेरस्य प्रभावो रावणस्य च ॥५॥
युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः । समाश्वासयितुं भार्या पतिदर्शनकाक्षिणीम् ॥६॥ वृत्तान्तम् । तर्जनं तर्जनवचनम् ॥ १॥ अवेक्षमाण इति । चिन्तां चिन्तयामास चिन्तां चकार ॥२॥ यामिति, सर्ववानराभिलपितोऽर्थो मयेकेन लब्ध इति विस्मितवान् ॥ ३॥ इदं वक्ष्यमाणम् । तावत् कात्स्न्ये न ॥ ४॥५॥ समाश्वासयितुं युक्तं न्याय्यम् ॥६॥ व्यपनीततन्द्री निरस्तजाव्या । हर्षविवृद्धसत्त्वा हर्षेण विकसितचित्ता सा सीता वदनेन का अशोभत । शुक्के शुक्लपक्षे ॥ ८॥ इति श्रीमहेश्वरतीयविरचिताया श्रीरामायणतत्वदीपिकाल्यायां सुन्दरकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥ २९॥ हनुमानिति । विश्रान्तः विगतव्यापारः । सीतायात्रिजटायाश्च सर्व, वृत्तान्त मिति शेषः ॥ १॥ चिन्ता चिन्तयामास चिन्ता चकारेत्यर्थः ॥ २ ॥३॥ चारेणेति । इदं वक्ष्यमाणम् ॥४॥ राक्षसानां विशेषस्तारतम्पमैश्वर्यादिकृतम् । अस्य रावणस्य प्रभावश्चावेक्षितः॥५॥ युक्तं न्याय्यम् ॥६॥ स-यथा तस्येति । सर्वसम्वदयावतः, सर्वे माहिसा विषये सच्चवान् बलबाबासौ दयावांव तस्य । सर्वबलवान् सर्वदयावास्तस्येति वा, सर्वप्राणिषु दयावांस्तस्येति वा । समाश्वासयितुं मया, युक्तमिति शेषः॥१॥
For Private And Personal