________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
इति । संशयः संशयितार्थः । स च सङ्ग्रामः । अथापि तथाकरणे स एव कार्यहन्ता बुद्धिहीनो निन्दाभाजनं चेत्याशयेनाह-कश्चेति । प्राज्ञः कः। ससंशयं कार्य निस्संशयं निर्विचारम् कुर्यात् ॥ ३५ ॥ अनभिभाषणे रामसंदेशानिवेदने । एष दोषः पूर्वोक्तसीतासंत्रासाकोशतनिमित्त राक्षसागमनादिः। सीताभिभाषणे वानररूपेण पुरः स्थित्वाऽभिभाषणे ॥३६॥ भूताश्चार्थाः निष्पन्नार्थाः। विक्लवम् अविवेकिनम् दूतमासाद्य देशकाला।
प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे । एष दोषो महान हि स्यान्मम सीताभिभाषणे ॥ ३६ ॥ भूताश्चा विनश्यन्ति देशकालविरोधिताः। विक्लवं दूतमासाद्य तमः सूर्योदये यथा ॥३७॥ अर्थानान्तरे बुद्धिनिश्चिताऽपि न शोभते। घातयन्ति हि कार्याणि दूताः पण्डितमानिनः ॥३८॥ न विनश्येत् कथं कार्य वैक्लव्यं न कथं भवेत् । लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् ॥ ३९॥ कथं नु खलु वाक्यं मे शृणुयानोद्रिजेत वा । इति संचिन्त्य
हनुमांश्चकार मतिमान मतिम् ॥४०॥ विरोधिताः सन्तः सूर्योदये तमो यथा विनश्यति तथा विनयन्तीति सम्बन्धः ॥ ३७ ॥ अत्र विकुवं दूतमासाद्येत्यनुषज्यते । अर्थानान्तरे कार्याकार्य विषये । निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः विक्लवं दूतमासाद्य न शोभते, अकिंचित्करा भवतीत्यर्थः । एतदेवोपपादपति घात यन्तीति ॥ ३८॥ प्रागुक्ता दूतदोषाः स्वस्मिन्यथा न स्युस्तथा कर्तव्यमित्याह-न विनश्येदिति । कार्य स्वामिकार्यम् । कथं केन प्रकारेण न विन| श्येत् । वैक्लव्यं बुद्धिहीनता मम कथं न भवेत् । समुद्रलनं कथं न वृथा भवेत्, तथा कर्तव्यमिति शेषः ॥३९॥ कथमिति । अब सीतेत्यध्याहार्यम् । कार्य निस्संशयः निर्विकारस्सन कुर्यात ?॥ ३५ ॥ प्राणेति । एष दोषः पूर्वोक्तजयापजययोः संशयरूपदोषः । अनभिभाषणे रामसन्देशानिवेदने ॥३६॥ भूताश्चार्था निष्पन्ना अप्यर्थाः। विक्लवम् अविवेकिनम् दूतमासाद्य देशकालविरोधितास्सन्तः विनश्यन्ते नश्यन्ति, अयुक्तदेशायुक्तकालप्रयुक्तत्वादितिभावः॥३७॥ अर्थानान्तरे कार्याकार्यविषये निश्चितापि स्वामिना सचिवैः सह निश्चितापि बुद्धिः। तत्र विक्लवं दूतमासाद्येत्यनुषज्यते, न शोभते अकिचित्करा भवतीत्यर्थः । एतदेवोप पादयति हीति ॥ ३८॥ प्रागुक्ता दूतदोषाः स्वस्मिन् यथा न स्युः तथा कर्तव्यमित्याह-नेति । कार्य स्वामिकार्यम् । वैकल्यं बुद्धिहीनता मम कथं न भवेत्, समुद्रस्य | लङ्घनं कथं नु वृथा न भवेत, तथा कर्तव्यमिति शेषः ॥ ३९॥ कथमिति । शृणुयात, सीतेति शेषः । मतिं चकार सीतासम्भाषणोपायं निश्चितवानित्यर्थः ॥४०॥
For Private And Personal