________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
भरिति । चन्द्रसूर्यों पाणिना परिमार्जतीति । अत्र स्वाध्यायवचनम्-"आदित्यमण्डलं वा तु चन्द्रमण्डलमेव वा । स्वमे गृह्णाति हस्ताभ्या राज्यं । संप्राप्नुयान्महत् ॥” इति ॥ १५-१७ ॥ अयमिह स्वप्रकमा-शिबिकास्थितो रामो दृष्टः, श्वेतपर्वतस्था सीता च । ततः शिबिकाया गजमारुझ
भर्तुरङ्कात् समुत्पत्य ततः कमललोचना। चन्द्रसूर्यों मया दृष्टा पाणिना परिमार्जती ॥ १५॥ ततस्ताभ्यां कुमा राभ्यामास्थितः स गजोत्तमः। सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः॥ १६॥ पाण्डुरर्षभयुक्तेन रथेनाष्ट युजा स्वयम् । इहोपयातःकाकुत्स्थः सीतया सह भार्यया ॥ १७ ॥ लक्ष्मणेन सह भ्रात्रा सीतया सह वीर्य वान् ॥ १८ ॥ आरुह्य पुष्पकं दिव्यं विमानं सूर्यसन्निभम् । उत्तर दिशमालोक्य जगाम पुरुषोत्तमः॥ १९ ॥
एवं स्वप्ने मया दृष्टो रामो विष्णुपराक्रमः । लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया * ॥२०॥ लक्ष्मणेन सह पर्वतमभ्येत्य ततस्सीतां गजस्कन्धेऽधिरोप्य लङ्काया उपरि स्थित्वा ताभ्यां सहाधर्षभयुक्तेन रथेनेहागत्य स्वं देशं प्रति ताभ्यां पुष्पक मधिरुह्य गत इति । अन्ये श्लोकाः प्रक्षिप्ताः । तेन ते न व्याख्याता इत्याहुः । लक्ष्मणेन सह भ्रात्रेति । एतत्पादस्यानन्तरम्-सीतया सह वीर्यवान्
भर्तुरडादिति । पर्वताने गजस्कन्धे भर्तुरङ्के स्थित्वा तस्मात्समुत्पत्य । कायमूर्ध्वमायम्येत्यर्थः ॥ १५ ॥ १६ ॥ पाण्डुरर्षभेत्यादि सार्यश्लोकत्रयमेकं वाक्यम् । Kaतस्मिन् गजे लङ्कोपरिस्थिते रामः सीतालक्ष्मणाभ्यां सह पाण्डुरखुषमाष्टयुक्तेन रथेनेहागत्य पुष्पकारूढस्ताभ्यां सहोत्तरी दिशं प्रस्थितो दृष्ट इति सम्बन्धः । इह
*[साण्डं त्रिभुवनं सर्व सर्वतः सचराचरम् । सर्व प्रस्तं मया रष्टं रामेणालिष्टकर्मणा ।। १ ।। झोरोदधिजले मध्ये श्वेत: शलः समुच्छ्रितः । तस्य मूर्ध्नि तत: श्वेतश्चतुर्दन्तो महागजः ॥२॥ तस्य पृष्ठे स्थितः श्रीमात्रामो राजीवलोचनः । तत: सीता समुत्पत्य भर्तुरकाश्रिता तदा । बाहुभ्यां सम्परिणय सम्पूर्ण चन्द्रमण्डलम् ॥ ३ ॥ ततोऽन्यत्र मया दृष्टो रामो राजीवलोचनः । आसीनः प्रामुख: श्रीमा नासने परमाद्भुते ॥ ४ ॥ अभिषिक्तस्तु काकुत्स्थः सर्वदेवैनमस्कृतः । सब्रह्मर्षिगणैस्स स्सर्वतीर्थजळेन च ॥ ५॥ शुष्ठमाल्याम्बरधरा शुक्छमाल्यानुलेपना । साधु सा वत्र सुश्रोणी रराज जनकात्मजा ॥६॥
ततो देवास्सगन्धर्वास्सिद्धाश्च परमर्षयः । ब्रह्माणमपत: कृत्वा रामं तत्र ववन्दिरे ॥ ७॥ पुनरेव मया दृष्टो रामो रमयतां वरः । विष्णुरेव स्वयं भूत्वा तस्मिन्नास्ते वरासने ॥ ८॥ परं ब्रह्म परं तत्त्वं परं ज्ञाम | बाप तपः । परं बीजं परं क्षेत्रं परं कारणकारणम् ।। ९ ।। शङ्खचक्रगदः श्रीमान् पुण्डरीकायतक्षणः । श्रीवत्सवक्षा नित्यआरजेयः शाश्वतो ध्रुवः ।। १०॥ एवंभूतो महातेजा रामः कमललोचनः । सर्वलोकेश्वरः
श्रीमान् ससर्ज रघुनन्दनः ।। ११ ॥ ततोऽमरेन्द्राः पितरो मुनीन्द्रा गन्धर्वविद्याधरपझगेन्द्राः । कृताभिषेक परिवार्य रामं प्रतुष्टुवुः प्राजयः प्रहष्टाः ॥ १२ ॥ ततस्तु सर्वाप्सरसः प्रहष्टा नृत्यन्ति गायन्ति समेत्य तत्र । वार्थ प्रकुर्वन्ति समेत्य शा वंशाध वीणा मुरजाश्व मेयः ॥ १३॥ एते कोकाः प्रक्षिप्ताः ॥
स०-विष्णुः उपेन्द्ररूपी सन् ॥ ८॥ तत्स्वरूपं निरूपयति-परं ब्रह्मेति । कीदृशं ब्रह्म परं तध्वम् भत्यन्तानारोपितरूपम् । परं ज्ञानम् उत्तमज्ञानस्वरूपम् । परं तपः फलरूपम् । परं बीजम् अतिशयेन निमित्तकारणम् । परं क्षेत्रं मुरूपाश्रयः । कारणकारण प्रकृतिकालादिरूपकारणानामपि कारणम् ॥९॥ नित्यश्री: अनपायलक्ष्मीवान् ॥ १०॥ अत्र सावं त्रिभुवनमित्वाद्येतदन्तं लोकजातं प्रक्षिप्तमिति कतकप्रभृतयः । अस्माभिस्तु गङ्गाजल मिश्ररध्योदकवदुपादेयतया व्याख्यातम् ॥]
For Private And Personal