________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
कुर्वन्नित्यर्थः । सानुक्रोशः किंचित्कारकरणे "भृशं भवति दुःखितः" इत्युक्तरीत्या तेषां व्यसने साते अतिदुःखितः राघवः, जनितार्जितानां गुणान्तराणा मुपसंग्रहणमिदम् । सदृत्तः परसमृद्धयेकप्रयोजनः । ख्यातः एवं शत्रुगोष्ठयामपि प्रसिद्धः । निरनुक्रोशः शङ्के अस्यामप्यवस्थायां सुखप्रदानाभावात् नृशंसमाशङ्के! मद्भाग्यसंशयाद मद्भाग्यविपर्ययेणैवं वैपरीत्यं जातम् ॥ १३ ॥एकमात्रसहायः स किं करिष्यतीत्यत्राह-राक्षसानामिति । जनस्थाने
राक्षसानां सहस्राणि जनस्थाने चतुर्दश । येनकेन निरस्तानि स मां किं नाभिपद्यते ॥ १४ ॥ निरुद्धा रावणेनाह मल्पवीर्येण रक्षसा। समर्थः खलु मे भर्ता रावणं हन्तुमाहवे ॥ १५ ॥ विराधो दण्डकारण्ये येन राक्षसपुङ्गवः। रणे रामेण निहतः स मां किं नाभिपद्यते ॥ १६॥ काम मध्ये समुद्रस्य लडेयं दुष्प्रधर्षणा।न तु राघवबाणानां गतिरोधीह विद्यते ॥१७॥ किं तु तत्कारणं येनरामो दृढपराक्रमः।रक्षसाऽपहतां भार्यामिष्टा नाभ्यवपद्यते॥१८॥ इहस्थां मां न जानते शङ्के लक्ष्मणपूर्वजः। जानन्नपि हि तेजस्वी धर्षणं मर्षयिष्यति ॥ १९ ॥ हृतेति योऽधिगत्वा मां राघवाय निवेदयेत् । गृध्रराजोऽपि स रणे रावणेन निपातितः॥२०॥ कृतं कर्म महत्तेन मां तथाऽभ्यवपद्यता। तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा ॥२१॥ यदि मामिह जानीयाद्वर्तमानां स राघवः। अद्य बाणैरभिक्रुद्धः
कुर्याल्लोकमराक्षसम् ॥ २२ ॥ रक्षसां चतुर्दश सहस्राणि एकेन येन रामेण निरस्तानि पातितानि सः नाभिपद्यते न रक्षति ॥१४॥ प्रबलो रावणः कथं निरस्य इत्यत्राइ-निरुद्धति Kon १५॥ सामर्थ्य निदर्शयति--विराध इति ॥ १६ ॥ अस्तु रामः समयः, तथापि समुद्रमध्यस्था लङ्का दुष्पधणेत्याशङ्कयाह-काममिति । गति
रोधि गतिप्रतिबन्धकम्, किंचिदिति शेषः ॥ १७॥ एतत्फलितमाह-किन्विति ॥१८॥ इहेति । लक्ष्मणपूर्वज इत्यनेन निरनुकोशत्वादिप्रसत्यभावः सूच्यते । मर्षयिष्यतीत्यत्र काकुरनुसन्धेया ॥ १९॥ इहास्तीत्यज्ञाने हेतुमाह-दृतेति॥२०॥ प्रसङ्गादाह-कृतमिति । अभ्यवपद्यता रक्षता। रावणद्वन्दे । इहस्थामिति।मर्षयिष्यतीत्यत्र काकुरनुसन्धया । तथा चन सहिष्यतीत्यर्थः॥ १९॥२०॥मां तथाऽभ्यपद्यता मन्मोचनार्थमागतेन । रावणद्वन्द्वे रावणयुद्धे ॥२१-२३॥
For Private And Personal