SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir आत्मगुणानुफ्त्वा विग्रहगुणानाह पद्मदलपत्राक्षम् । दलतीति दलं विकसितपद्माक्षमित्यर्थः । यद्धा दलतीति दलं गर्भपत्रम् । विस्पष्टार्थमेकार्थे शब्दद्वयं ।। वा। सिंहविक्रान्तगामिनं विक्रान्तं विक्रमः गमनं तद्वत् गच्छतीति तथा ॥ १६ ॥ १७॥ पुरा जन्मान्तरे पूर्वजन्मनि । घोरं सुदारुणम् अत्यन्तघोर सर्वथा तेन हीनाया रामेण विदितात्मना । तीक्ष्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ १७ ॥ कीदृशं तु मया पापं पुरा जन्मान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८ ॥ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया ॥ १९॥ धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत् परित्यक्तुमात्मच्छन्देन जीवितम् ॥२०॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चविंशः सर्गः ॥२५॥ प्रसक्ताश्रुमुखीत्येवं ब्रवन्ती जनकात्मजा । अधोमुखमुखी बाला विलप्तुमुपचक्रमे ॥ १॥ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती। उपावृत्ता किशोरीव विवेष्टन्ती महीतले ॥२॥ मित्यर्थः ॥ १८॥ रक्ष्यन्त्या रक्ष्यमाणया ॥ १९ ॥ परवश्यतां भर्तृपरतन्त्रताम् । परस्वभूतं शरीरं न स्वेच्छया त्यक्तुं शक्यमित्यर्थः । आत्म च्छन्देन मदिच्छया ॥२०॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ HI प्रसक्तेत्यादि । उन्मत्ता चित्तविभ्रमवती । “उन्मादश्चित्तविभ्रमः" इत्युक्तेः। प्रमत्ता अनवधाना । “प्रमादोऽनवधानता" इत्यमरः। भ्रान्तचित्ता पन्नाक्षं दलतीति दलं विकसितपद्मम्, तस्य पत्रमिवाक्षं विकसितपद्मपत्राक्षमित्यर्थः ॥ १६ ॥ तीक्ष्णं विषं वत्सनामादिकमास्वाद्य स्थितस्येव मम मे जीवितं | दुर्लभम् ॥ १७ ॥ १८ ॥ रक्ष्यत्या रक्ष्यमाणयेत्यर्थः ॥ १९ ॥ छन्देन इच्छया ॥ २०॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्वदीपिकारुयायां सन्दरकाण्ड व्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥ प्रसक्ताश्रुमुखी प्रसक्तानि प्रवृत्तानि अणि मुखे यस्यास्सा । पर्व हवन्ती वक्ष्यमाणरीत्या बुबन्ती। विलनु विलपितुम् ॥१॥ उन्मत्तेव भूताविष्टेव । प्रमत्तेव मदकरद्रव्यसेवनात् प्रकर्षेण मत्तेव । चान्तचित्तेष व्पामूडचित्तेव । उपावृत्ता किशोरीव श्रमापनोदनार्थ बेष्टिता बहवेव ॥ २॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy