SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥७३॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विपरिणम्यते ॥ १९ ॥ २० ॥ साधु ते कथितम् साधु गृहाणेति साधुशब्दद्वयस्य निर्वाहः ॥ २१ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ तत इत्यादि ॥ १ ॥ २ ॥ मानुषीति । न त्वं जातु भविष्यसि तस्येति शेषः । साधु ते तत्त्वतो देवि कथितं साधु भामिनि । गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि ॥ २१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ततः सीतामुपागम्य राक्षस्यो विकृताननाः । परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥ १ ॥ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे । महार्हशयनोपेते न वासमनुमन्यसे ॥ २ ॥ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे । प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि ॥ ३ ॥ त्रैलोक्यवसुभोक्तारं रावणं राक्षसेश्वरम् । भर्तारमुपसङ्गम्य विहरस्व यथासुखम् ॥ ४ ॥ मानुषी मानुषं तं तु राममिच्छसि शोभने । राज्याद् भ्रष्टमसिद्धार्थं विक्लवं त्व मनिन्दिते ॥ ५ ॥ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा । नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ ६ ॥ यदिदं लोकविद्विष्टमुदाहरथ सङ्गताः । नैतन्मनसि वाक्यं मे किल्विषं प्रतिभाति वः ॥ ७ ॥ मानुषीति हेतुगर्भम् । मानुषी त्वं मानुषं तमिच्छसि ॥ ३-६ ।। किल्बिषं पापावहम् ॥ ७ ॥ ८ ॥ वश इति शेषः । तस्मै न तिष्ठस इति वाऽर्थः ॥ १८-२० ॥ साधु कथितं साधु गृहाण चेति सम्बन्धः ॥ २१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतस्वदीपिका ख्यायां सुन्दरकाण्डव्याख्यायां त्रयोविंशः सर्गः ॥ २३ ॥ १ ॥ २ । मानुषीति । प्रत्याहर निवर्तय । न त्वं जातु भविष्यसि, रामस्येति शेषः । मानुषीत्वस्य | वास्तवार्थस्तु मानुषीत्वं मानुषस्य मनुष्यावतारस्य रामस्य भार्यात्वमनुमन्यसे । तदुक्तम् अतः रामात् मनो न प्रत्याहर त्वं जातु भविष्यसि, रामस्येति शेषः ॥ ३ ॥ ॥ ४ ॥ मानुषीति । राज्याष्टं पितृवाक्य परिपालनाय त्यक्तराज्यमित्यर्थः । असिद्धार्थम् अश्वासौ सिद्धार्थश्च असिद्धार्थः तम्, सिद्धसर्वप्रयोजनं विष्णुमित्यर्थः । | विक्कवं दयालुम् ॥ ५ ॥ राक्षसीनामिति । नेत्राभ्यामुपलक्षिता ॥ ६ ॥ किल्विषं किल्विषविषयम् ॥ ७ ॥ स० [परुषमपि सरक्षा पित्रा पुत्रं प्रत्युदीरित शठ तार्ह न पठेत्येवमादि वाक्यमन्ततो गत्वा प्रायः प्रियपर्यवसायि दृष्टमित्यतोऽप्रियमित्युक्तम् ॥ १ ॥ For Private And Personal टी. सुं.की. स० २४ ॥७३॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy