________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू.
॥७१॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
च्छद्मनाऽपवाह्य ॥ २२ ॥ विवृत्यवत् ॥ २३ ॥ सिंहस्येव बलगम यस्यासौ सिंहसत्त्वगतिः । जिह्वाग्रं लोचने च दीप्तानि यस्य सोऽयं दीप्तजिह्वाग्र लोचनः ॥ २४ ॥ कांपेन चलम् अयं यस्य तत् चलायं च तद मुकुटं च तेन त्रांशुः दीर्घः । चित्रमाल्यवत्त्वेऽपि रक्तमाल्यवत्त्वं तत्प्राचुर्यादुक्तम् सीताया वचनं श्रुत्वा रावणे राक्षसाधिपः । विवृत्य नयने क्रूरे जानकीमन्ववैक्षत ॥ २३ ॥ नीलजीमूतसङ्काशो महाभुजशिरोधरः। सिंहसत्वगतिः श्रीमान दीप्तजिलोचनः ॥ २४ ॥ चाग्रमुकुट प्रांशुश्चित्रमाल्यानुलेपनः । रक्तमाल्याम्बरधरस्तप्ताङ्गदविभ्रषणः ॥ २५ ॥ श्रोणीसूत्रेण महता मेचकेन सुसंवृतः । अमृतोत्पादनद्धेन भुजगेनेव मन्दरः ॥२६॥ ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसेश्वरः । शुशुभेऽचलसङ्काशः शृङ्गाभ्यामिव मन्दरः ॥ २७॥ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः । रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः ॥ २८ ॥ स कल्पवृक्ष प्रतिमा वसन्त इव मूर्तिमान् । श्मशानचैत्यप्रतिमो भूषितोऽपि भयङ्करः ॥ २९ ॥ अवेक्षमाणो वैदेहीं कोपसंरक्त लोचनः । उवाच रावणः सीतां भुजङ्ग इव निःश्वसन् ॥ ३० ॥ अनयेनाभिसंपन्नमर्थहीनमनुत्रते । नाशयाम्यहमद्य त्वां सूर्यः सन्ध्यामिवोजमा ॥ ३१ ॥ इत्युक्का मैथिलीं राजा रावणः शत्रुरावणः । सन्दिदेश ततः सर्वा राक्षसी घोरदर्शनाः ॥ ३२ ॥ एकाक्षीमेककर्णी च कर्णप्रावरण तथा । गोकर्णी हस्तिकर्णी च लम्बकर्णीमकर्णिकाम् ॥ ३३ ॥ तप्ताङ्गदविभूषणः तप्तशब्देन तेजिष्टत्वमुक्तम् ॥ २५ ॥ चक्रेन नीलेन । अनृतोत्पादनद्धेन अमृतोत्पादनार्थं नद्धेन ॥ २६ ॥ ताभ्यां प्रसिद्धाभ्याम् ॥ २७ ॥ २८ ॥ अलंकृतत्वे कल्पकसाम्यम | भयंकरत्वे पुनश्चैत्यसाम्यम् । चैत्यं श्मशानवृक्षः, श्मशानमण्डपो वा । सीताया अत्यन्त भयंकरत्व ज्ञापनाय रावणवर्णनं कृतम् ॥ २९-३१ ॥ इत्युक्तवेत्यादि । प्रधानाप्रधानभूते द्वे एकाक्ष्यो । अतो न पुनरुक्तिः। अथवा अक्षम इन्द्रियम्, एकाक्षीम एकै श्रोणीसूत्रेण रशनागुणेन । मेचकेन इन्द्रनीलनद्धमुखत्वान्मे व कत्वम् ॥ २६-३०॥ अन येनेति श्लोकः केषुचित्कोशेषु नास्तीति कृत्वा न व्याख्यातः ॥ ३१ ॥ ३२ ॥ एकाक्षी स०-अनयेन स्त्रीवधरान्नासिकाच्छेदायन्यायेन । अभिसम्पन्नं युक्तम् । अर्थहीन निर्माग्यम् । एतादृशं राममनुत्रते सीते ! त्वां नाशयामि | सन्ध्यां सन्ध्याकालिकं तमः ॥ ३१ ॥
For Private And Personal
टी. सुं.का.
स० २२
॥७१॥