________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
१७०॥
लाकृत"मासान द्वादशभामिनि"इत्यारण्यकाण्डोक्ता द्वादशमासात्मकोऽवधिः कल्पितः।अत्र द्वौमासावशिष्टौती दौमासो मेमया रक्षितव्यो प्रतीक्षणीयौ।यादी..का. ततः तस्मात्कारणात् । मम शयनमारोहेत्यन्वयः ॥८॥ प्रातराशार्थ मासद्यान्तर्गतरात्रितमाप्त्यनन्तरं हिंसायां कालविलम्ब विना प्रातःकालिकाशनार्थ ।
INस.२२ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां भर्तारं मामनिच्छतीम् ।मम त्वां प्रातराशार्थमारभन्ते महानसे ॥९॥ तां तय॑माना संप्रेक्ष्य राक्षसेन्द्रेण जानकीम् । देवगन्धर्वकन्यास्ता विषेदुर्विकृतेक्षणाः ॥ १०॥ ओष्ठप्रकारैरपरा वक्रनेत्रैस्तथा ऽपराः। सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥११॥ ताभिराश्वासिता सीता रावणं राक्षसाधिपम् । उवाचात्म हितं वाक्यं वृत्तशौण्डीर्यगर्वितम् ॥ १२ ॥ नूनं न ते जनः कश्चिदस्ति निःश्रेयसे स्थितः। निवारयति यो न त्वां
कर्मणोऽस्माद्विगर्हितात् ॥ १३ ॥ मित्यर्थः। आरम्भते आलभन्ते । रलयोरभेदः। “आलम्भस्स्पर्शहिंसयोः" इत्यमरः । महानसे पाकशालायाम्॥९॥१०॥ ओष्ठप्रकारैः रुरुदिषतामोष्ठेषु । भङ्गस्फुरणादयो ये विकारास्ते ओष्ठप्रकाराः, ओष्ठभङ्गादिरूपसंज्ञादिभिरित्यर्थः। एवं वक्रनेत्रैः वक्रनेत्रसंज्ञादिभिरित्यर्थः ॥११॥ वृत्तशौण्डीर्यगर्वित वृत्तं पातिव्रत्यं तस्य शौण्डीय बलं तेन गर्वितमिति क्रियाविशेषणम् ॥ १२॥ नूनमिति । ते निःश्रेयते स्थितः कश्चिजनः नास्ति । यः अस्मात् । ऊर्ध्वमिति । प्रातराशामित्यत्र प्रातश्शब्देन मासद्वयसमात्यनन्तरमातःकाल उच्यते। एवमुक्त्वेत्यादिश्लोकत्रयस्य वास्तवार्थस्तु-क्रोधसंरम्भसंयुक्त इत्यनेन राक्षस स्वभावो वर्णितः। पतिवियोगदुःखिता निद्राहाररहिता प्रत्याह-दो मासावित्यादिश्लोकद्वयेन । हे मे लक्ष्मि सीते ! मया योऽवधिः कृतः 'मासान द्वादश भामिनि । प्रतीक्षस्व ' इति यः समयः प्रार्थितः तन्मध्यतः परं रक्षितव्यो प्रतीक्षणीयो द्वौ मासावेव, द्वाभ्यां मासाभ्यामूर्व न, ततः तदनन्तरम् ते तव भर्तारम् अनिच्छन्ती, मामनङ्गीकुर्वाणाम् मम मा मदीयराज्यलक्ष्मी च प्राप्स्यसीति शेषः । त्वां प्रार्थय इति शेषः । मम महानसे प्रातराशार्थ आलभन्ते पशून तान् भक्षयेति शेषः। शयनमारोह शयनं कुर्वित्यर्थः ॥९॥ तामित्यस्य वास्तवार्थस्तु-तळमानामिति । तासा तथा प्रतीतेरिति भावः ॥ १० ॥ ओष्ठेति । ओष्ठप्रकारैः ओष्ठभङ्गादि ॥७॥ रूपसंज्ञाभिः वक्रनेत्रे वक्त्रनेत्रसंज्ञाभिः ॥ ११॥ वृत्तशोण्डीर्यगर्वितं वृत्तं पातिव्रत्यम् शौण्डीर्य बलम्, पातिव्रत्यवलगर्वितमित्यर्थः ॥ १२ ॥ ते तव । निश्रे यसे स्थितः कश्चिजनोऽस्ति यः अस्माद्विगहितात्कर्मणः निवारयति । सच नास्तिनूनमिति योजना । नव इष्टमापकअनिष्टनिवर्तकश्न नास्तीति भावः॥१३॥
For Private And Personal