________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyarmandie
171
बा.रा.भ
१९॥
गोचरं गतयोः बाह्यदेशं गतयोः॥३०॥३१॥ तस्य ते असमर्थतया चोरवृत्तेस्तव ताभ्यां रामलक्ष्मणाभ्यां विग्रहे सति युद्ध सति । युगग्रहणं संयुगे दीको जयग्रहणम् । अस्थिरम् असम्भावितम् । यद्वा युगग्रहणं युद्धारम्भः अस्थिरम् अध्रुवम्।किंतु ताभ्यां प्रसह्य वधस्ते सिद्ध इति दृष्टान्तेनाह वृत्रस्येवेति ।
स०२१ आश्रमं तु तयोःशून्यं प्रविश्य नरसिंहयोः। गोचरं गतयोभ्रात्रोरपनीता त्वयाऽधम ॥ ३०॥ नहि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया । शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव ॥ ३१ ॥ तस्य ते विग्रहे ताभ्यां युगग्रहण मस्थिरम् । वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः ॥ ३२॥ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह । तोयमल्पमिवादित्यः प्राणानादास्यते शरैः ॥ ३३ ॥ गिरि कुबेरस्य गतोऽपधायवा सभां गतो वा वरुणस्य राज्ञः। असंशयं दाशरथेन मोक्ष्यसे महाद्रुमः कालहतोऽशनेरिव ॥ ३४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमत्सुन्दरकाण्डे एकविंशः सर्गः ॥२१॥ वृत्रस्य एकस्य बाहोभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव जय इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाह्वोरिव एकेन त्वया तयो ईयोर्जयो न शक्य इत्यर्थः॥३२॥ सः नाथ इति पदच्छेदः॥३३॥ गिरिमिति। अपधाय अपक्रम्य। कुबेरस्य गिरि कैलासम् । "कैलासः स्थानमलका" इत्यमरः ॥३४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूपणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकविंशः सर्गः ॥२१॥ आश्रममिति । गोचरं गतयोः मायामृगरूपमिन्द्रियार्थ गतयोः ॥३०॥ यस्माद्रामलक्ष्मणयोर्गन्धमाप्राय शार्दूलयोः सन्दर्शने शुनेव समक्ष स्थातुं त्वया न शक्यम् ॥ ३१॥ तस्य ते युद्धासमर्थतया चौर्यवृत्तेः तव ताभ्यां रामलक्ष्मणाभ्यां सह विप्रहे युद्ध सति । युगप्रहणं युद्धजयः । अस्थिरम् अध्रुषम् । वृत्रस्यैकस्य बाहोः द्वाभ्यामिन्द्रस्य बाहुभ्यां सह विग्रहे सति निग्रह इव वृत्रस्यैकेन बाहुना इन्द्रस्य द्वयोर्बाहोरिव एकेन त्वया तयोः द्वयोः जयो न शक्य इत्यर्थः ॥ ३२ ॥ मे नाथः स राम इत्यन्वयः ॥ ३३ ॥ गिरिमिति । कुबेरस्थ गिार गन्धमादनम् । अपधाय अतिक्रम्य । पुरीमिति पाठे-कुबेरस्य पुरीमित्येतदुपरितनलोकानामुप ६९॥ लक्षणम् । वरुणस्य सभामित्यनेन अधस्तनलोकानामुपलक्षणम् । तत्त्वदृष्टया अपरुषवचनं तं रावणमुद्दिश्य सीतयोक्तानां परुषवाक्यानामयमाशयः-रावणेन | देवी प्रति तत्वदृष्टया सौम्परूपाण्येव वाक्यान्युक्तानि यद्यपि तथापि बाह्यदृष्टया परुषवाक्यवत् प्रतीयमानत्वेन देण्यपि तत्वदृष्टिं सोप्य बाह्यदृष्टिमनुसृत्य परुषवाक्यैरेव तस्योत्तरमाइति ॥ ३४ ॥ इति श्रीमहेश्वरतीर्थविरचितायो पारामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायाम् एकविंशः सर्गः ॥२१॥
For Private And Personal