________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
बा.रा.भू.
॥ ६८ ॥
सुन्दरेण । मां तस्यानन्याहम्, तद्वियोगे जीवितं धारयितुमशक्ताम् “नच सीता" इत्यादि । समानय सङ्गमय । तत्र हेतुः दुःखितामिति । करेण्वा गजबध्वा । वाशितया यौवनं गतया । "वाशिता युवतिः प्रोक्ता कलभः करिपोतकः" इति वचनात् । यद्वा वासितयेति पाठः । वने वासितया बद्धया । अत्र विभक्ति * व्यत्यासः कार्यः वने वासितां करेणुं गजाधिपेनेवेति । वस्तुतस्तु यथान्यास एवान्वेति । रामेण सङ्गमनं नाम रामाह्वानम् । नहि पुनरपि रामस्थानं तेन नेतुमीष्टे, किंत्वत्र राममाहूय समर्पणमेव । अत एव करेण्या गजाधिपमित्युक्तम् || १८ || एवं रावणे जननीत्वप्रतिपत्तिं विहाय कानिचिदसङ्गतानि जल्पति, मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता । वधं चानिच्छता घोरं त्वयाऽसौ पुरुषर्षभः । विदितः स हि धमज्ञः शरणागतवत्सलः ॥ १९ ॥ तेन मैत्री भवतु ते यदि जीवितुमिच्छसि । प्रसादयस्व त्वं चैनं शरणागतवत्सलम् ॥ २० ॥ मां चास्मै प्रयतो भूत्वा निर्यातयितुमर्हसि ॥ २१ ॥
देवी खिन्ना सती कोऽयमस्य स्वभावः कथमस्य कोऽप्युपदेष्टा सेत्स्यतीति इह सन्तो न वा सन्तीत्यादिना विचिन्त्य दयावती स्वयमेवोपदिशति मातृत्व प्रयुक्तवात्सल्येन - मित्रमिति । रामं शरणं गच्छेत्युके तन्त्र रावणस्सङ्केत दुर्मानितया, आत्मसदृद्धयनुसारेण मित्रमित्याह । किंच शरणागतं स्वस्याधीनं मन्यते देवी देवश्व । अत एव रामो वक्ष्यति " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन " इति । इयं च तथाऽऽह मित्रमिति । रामः मित्रं कर्तुं युक्तमित्यर्थः । मित्रशब्दापेक्षया औपयिकमिति नपुंसकनिर्देशः । स्थानं परीप्सता मार्गचीरस्यापि भूमौ पदानि स्थापयित्वा चौर्य कर्तव्यम् । तवापि यदि स्थान मभीप्सितं तर्हि तमेव भजेत्यर्थः । शरणागातिदैन्यादपि मरणमेव वरमिति यदि मन्यसे तदानीं तद्भजनं कर्तव्यमित्याह-वधं चानिच्छता घोरम् । तव सम्यङ मरणं न दास्यति त्वां संस्थाप्य त्वत्समक्षं त्वत्सन्तानजान् हिंसित्वा ततस्ते चित्रवधं करिष्यति, तं यदि नेच्छसि तदा प्रपत्तव्य इत्यर्थः । त्वया तत्प्रतीकारावलोकनेन त्वयाऽवश्यं तच्छरणागतिः कर्तव्या । एवं स रक्षक इत्यत्र किं प्रमाणम् ? तत्राह - असौ निरन्तरप्रत्ययेनास्या रामः प्रत्यक्ष | इव भासते । रावणस्यापि मायामृगानुसरणसमये तदाकारदर्शनजभयेन 'वृक्षेवृक्षे च पश्यामि' इत्युक्तरीत्या पुरःस्थित इव भासते । पुरुषर्षभः मत्कृता मित्रमिति स्थानं परीप्सता, लङ्कावासमिच्छतेत्यर्थः । अथवा घोरं वधं बहुविधपीडाकरर्वधम् । रामेण अनिच्छता वा त्वया पुरुषर्षभो रामः मित्रं कर्तु मौपयिकम् योग्य इत्यर्थः । सापराधं मां शरणागतत्वमात्रेण कथं रक्षिष्यतीति शङ्का न कर्तव्येत्याह-विदित इति ||१९||२०|| निर्यातयितुं प्रत्यर्पयितुम् ॥ २१ ॥
For Private And Personal
टी. सुं.का. स० २१
॥६८॥