SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsur Gyarmandir wwwkobatirth.org अनन्यति । अई नित्यानपायिनी। राघवेण रघुकुलावतीर्णेन विष्णुना अनन्या अविभक्ता। यत्र यत्र कुले विष्णुरवतरति तत्र तत्रावतीर्णा लक्ष्मीरित्यर्थः।। तृतीयया तत्परतन्त्रा चास्मीति द्योत्यते । न केवलं तस्य परतन्त्राऽहम्, प्रत्युत तस्याप्यतिशयावहति दृष्टान्तेन द्योतयति भास्करणेति।प्रभाहि भास्कर स्याप्यतिशयमावहति, तथैव हि मारीचो भवन्तं प्रति निवेदितवान्-"अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा" इति । किं तद्धितवचनमपि मोहेन उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् । कथं नामोपचास्यामिभुजमन्यस्य कस्यचित् ॥ १६॥ अहमौपयिकी भार्या तस्यैव वसुधापतेः । व्रतस्नातस्य धीरस्य विद्येव विदितात्मनः ॥ १७॥ साधु रावण रामेण मां समानय दुःखिताम् । वने वाशितया सार्ध करेण्वेव गजाधिपम् ॥ १८॥ विस्मृतोऽसीति तत्त्वमाह ॥१५॥ उपधायेति । लोकनाथस्य सवैब्रह्मादिदेवगणैः स्वस्वपदप्राप्तये नाथ्यमानस्य याच्यमानस्य । “नाथ याच्याम्” इति धातुः। तस्य रामस्य । सत्कृतं भुजं दक्षिणं भुजमित्यर्थः । उपधाय उपधानीकृत्य । तेन तत्परिष्वक्तत्वं गम्यते । एवं श्लाषिताऽहम् अन्यस्य ततो भोग याचमानस्य कस्यचिदनामधेयस्यक्षुद्रस्य त्वादृशः भुजम् असत्कृतं कथं नामोपधास्यामि ? न कथंचिदपीत्यर्थः ॥१६॥ अहं तु शीलवयोवृत्ता तस्यैव तुल्यशीलवयोवृत्तस्य वसुधापतेः औपयिकी उचिता भार्या । "हीश्च ते लक्ष्मीश्च पन्यो" इनि भूमिनाथस्याई लक्ष्मीदेव्युचितेति हृदयम् । कथमिव ? व्रतस्नातस्य वेदव्रतैःस्नातस्य । धीरस्य धीमतः ब्राह्मणस्य । विदितात्मनः आत्मज्ञानवतः विद्येव योगाभ्यासरूपविद्येव॥१७॥ पाथचोरं पानीययाचक वद्रावणमर्थयते-साध्विति। साधु रावण! मद्वियोगेन त्वत्कौर्यमधिकं जातमिति भावः। एवमुत्कट मौर्य प्रति याचनात् स्वस्यातिशयो व्यज्यते। रामेण सर्वाङ्ग उपधाय शीर्षोपधानं कृत्वा ॥१६॥ ब्रतस्नातस्य विद्याव्रतस्नातस्य । विद्यव साङ्गवेदविद्ये ॥१७॥ समानय सङ्गमय। वने वासितयासार्ध करेण्वेव गजाधिपमिति । वने वासितां बद्धो करेणुं गजाधिपेन सार्धमिति विभक्तिविपरिणामेन योज्यम् । अन्यथा विरोधात् ॥ १८॥ | स०-भुजनित्यनेन मत्परिरम्भणकामनया तब भुजाना छेदः " ये निण्याः पाररम्भणं चकमिरे तेषां भुआश्विच्छिदुः" इत्यायुक्तभोवीति योतयति ॥ १८ ॥ विदितात्मनः अवगतभगवत्तवस्य । त स्नातस्य नमचर्या दिनतसङ्कल्पपूर्व स्नातस्य अभिषिक्तस्य विप्रस्थ विद्येव उपनिषदादिविद्येव । विप्रस्येस्पनेनोत्तरवर्णद्वयापेक्षया पृथम्जातेरेव मुख्याधिकारः बधाऽद तथा मुख्या तस्योपषिकोति सूचयति ॥१७॥ यद्यपि नीधातुकर्मक इति राम मा समानयेति वक्तव्यम्, तथापि रामेणेति तृतीपया सहयोगः सार्वकालिकः, त्वया संमेलनं तु लोकदृष्टगति सूचयितुम् । गजाधिपेन करिणीमिवेति दाष्टोन्तिकानुगुण्या वक्तव्यम् । सतमापीरचमुक्त्वा तदाम्पत्यमक्लृप्तमिति योतयति ॥१८॥ ill ११२ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy