SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir चा-रा.भू. ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥" इत्युक्तरीत्या प्रणिपातमन्तरेण न ते उपदिशन्ति । त्वं च तत्पादेषु कदाचिदपि न प्रणतवानसि । कथामिदं भवती टी.सु.का. जानातीत्याशङ्कयाह तथाहीति । तथाहि विपरीता ते बुद्धिः तव बुद्धिवपरीत्यमेव तव शियाननुवर्तनं सूचयतीत्यर्थः । परबुद्धेरप्रत्यक्षत्वात् कथं सास. २१ मदीया बुद्धिस्त्वया ज्ञायत इत्यत्राह आचारवर्जितेति । आचारवर्जिता, तव दुरनुष्ठानमेव तव बुद्धि द्योतयतीति भावः ॥९॥वच इति । पूर्वश्लोके ।। वचो मिथ्याप्रणीतात्मा पथ्यमुक्तं विचक्षणैः। राक्षसानामभावाय त्वं वान प्रतिपद्यसे॥१०॥ अकृतात्मानमासाद्य राजानमनये रतम् । समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च ॥ ११॥ तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कला। अपराधातवैकस्य नचिरादिनशिष्यति ॥१२॥ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः । अभिनन्दन्ति भूतानि विनाशे पापकर्मणः॥१३॥ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः। दिष्ट्यैतद्यसनं प्राप्तो रौद्र इत्येव हर्षिताः ॥३४॥ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा । अनन्या राघवेणाहं भास्करण प्रभा यथा ॥ १५॥ रावणस्याभाव उपन्यस्तः। अनेन राक्षसाभावपक्ष उपन्यस्यते । मिथ्याप्रणीतात्मा मिथ्यास्निग्धात्मा, स्नेहीति भावयन्निवेति यावत्। त्वं विचक्षणः साधुभिरुक्तं पथ्यं हितं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा । राक्षसेषु स्नेहं भावयन् तद्विनाशमेव हृदि कृत्वा साधुवचनं न शृणोषीत्यर्थः॥१०-१२॥रावणादीर्घदर्शिन इत्यत्र रावणति संबुद्धिः। निकृताः त्वया वञ्चिताः॥ १३॥ १४॥ शक्यति । अनेन रावणोक्त जाप्रलोभनानामुत्तरमुच्यते । ऐश्वर्येण अन्तःपुरस्त्रीणामीश्वरत्वेन । धनेन आभरणादिना वा । लोभायतुं वञ्चयितुम् । अहं न शक्या । अत्र हेतुमाह नानुवर्तसे विद्यमानानपि तान् धर्मजिज्ञासया नानुवर्तसेवा मिथ्या प्रणीतात्मा मिथ्या विनीतात्मा। त्वं विचक्षणः विद्वद्भिरुक्तं पथ्यं वचः राक्षसानामभावाय न प्रतिपद्यसे नाङ्गीकरोषि वा? तथाहि अत एव खलु तव बुद्धिः आचारबर्जिता विहिताचारविमुखा विपरीतानिषिद्धाचारपरेति योजना ॥९॥१०॥ ननु मया सज्जनोपदेशास्वीकारे कुतो राक्षसनाशप्रसङ्ग इत्यनोत्तरं वक्तुं लोकस्थितिमाह-अकृतेति । अकृतात्मानं सदुपदेशाग्राहिबुद्धिम् ॥ ११ ॥तथेयमिति । राजापरा ॥६॥ धतोऽशेषप्रजानाशस्य लोकप्रसिद्धत्वादिति भावः ॥ १२ ॥ स्वकृतैरपराधैः। रावणेति सम्बोधनम् । रौद्रः दिष्टया व्यसनं प्राप्त इति वक्ष्यन्तीति सम्बन्धः ॥१३॥ V॥ १४ ॥ रावणोक्तप्रलोभनवाक्यानामुत्तरमाह-शक्येति । ऐश्वर्येण अन्तःपुरनियन्तृत्वेन ॥१५॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy