________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyanmandir
www.kobatirth.org
अकार्यमिति । एकः पतिर्यस्यास्सा एकपनी तया। "नित्यं सपल्यादिषु" इति ङी॥॥ एवमिति । पृष्ठतः कृत्वा अनाहत्यर्थः॥६॥ नाइमिति । सती अहं तव औपयिकी युक्ता भार्या न किन्तु परिहार्या । साधूनां सतां धर्म साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । साधु सम्यक् चर ॥६॥ आत्मानमुपमा कृत्वा यथा तव दारा रक्ष्यास्तथाऽन्येषां दारा रक्ष्याः । तस्मात् स्वेषु दारेषु रम्पताम् ॥७॥ अतुष्टम् अतृप्तम् । निकृतिप्रज्ञम् निकृतो शाठये प्रज्ञा
अकार्यन मया कार्यमेकपल्या विगर्हितम् । कुलं संप्राप्तया पुण्यं कुले महति जातया ॥४॥ एवमुक्त्वा तु वैदेही . रावणं तं यशस्विनी । राक्षसंपृष्ठतः कृत्वा भूयो वचनमब्रवीत् ॥५॥ नाहमापयिकी भार्या परभार्या सतीतव।साधु धर्ममवेक्षस्व साधु साधुव्रतं चर ॥६॥ यथा तव तथाऽन्येषां दारा रक्ष्या निशाचर । आत्मानमुपमा कृत्वा स्वेषु दारेषु रम्यताम् ॥७॥ अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् । नयन्ति निकृतिप्रज्ञ परदाराः पराभवम्
॥८॥ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे । तथाहि विपरीता ते बुद्धिराचारवर्जिता ॥ ९॥ यस्य तम् । पराभवम् आयुरैश्वर्यादिक्षयरूपम् ।।८॥ इह अतिविशालेऽपि दुर्जनसङ्कले देशे । सन्तः त्वामनान्निवारयन्तः।न सन्ति वा नसन्ति किम् ? M सन्त्येव । श्रीविभीषणप्रभृतीनां सम्भवान्न सन्तीति कथं वक्तुं शक्यम् ? सतो वा नानुवर्तसे । “तद्विद्धि प्रणिपातेन परिषश्रेन सेवया । उपदेश्यन्ति | एकपत्न्या एकः पतिर्यस्यास्तया मया, पतिव्रतयेत्यर्थः । कुलं भर्तृकुलम् । पुण्यं पवित्रम् ॥॥ पृष्ठनः कृत्वा परावृत्येत्यर्थः॥ ५॥ परमार्या सती पतिव्रताहम् औपH यिकी युक्ता भार्या न, साधूनां धर्म साधुधर्मम् । साधूनां व्रतं साधुव्रतम् । वस्तुतस्तु-जाहमिति । अहं तव त्वया भार्या भर्तव्या न, किन्तु परभार्या परेण रामेण
भार्या भर्तव्या ॥६॥ यथा तव निजदाराणा शुद्धिरिष्टा, एवमन्येषामपीत्यात्मदृष्टान्तादेव निश्चित्य त्वमपि परदारनिस्पृहः स्वदारनिरतो भवेत्यर्थः ॥७॥ अतृष्टम् | अतृप्तम् । निकृतिप्रज्ञं निकृतौ शाठचे प्रज्ञा यस्य तम् । पराभवम् आयुरैश्वर्यादिक्षयरूपम् ॥ ८॥ इहेत्यादिश्लोकद्वयमेकं वाक्यम् । इह सन्तो न सन्ति वा सतो वा
स०-एकपल्या एकः पतिर्यस्याः सा रामकृतयज्ञफलभोकी, पतिवतेति यावत् । तपा विगार्हतं विनिन्दितम् । तर्हि कदापि गार्हितं खया नानुष्ठितं किनित्यतस्तथैवेत्पाह-मवेति । मया यदकारि तत्सर्व अं मत्पति विष्णुमुदिश्वाकारीति विहित न कार्यमिति भावः॥४॥औपयिकी उपभोगयोग्या न । तत्र हेतु:-यरभार्ये ते । तत्रापि नसैरिणीयुटीरपति-मतीति । साधूनां सता धर्म धर्मशास्त्राद्याशसितम् अवेक्षस्व । साधुव्रतं साधोः साज्याः पतिव्रताया मम मत परित्यजनं चर । “बोतो गुणवचनान्" इति साधुस्साधुः ॥ ॥ दारा: रक्ष्याः शीलत: मरक्षणीयाः । आत्मानं सम् । उपमां निदर्शनम् । सदारधर्षण दुर्मर्षणं मम यथा तथान्येषामित्यत्र ॥ ७ ॥
For Private And Personal