________________
Shri Mahavir Jan Aradhana Kendra
www.kobaturth.org
Acharya Shri Kailashsagarsuri Gyarmandie
बा..भ.
॥६५॥
8
प्रतिकति । दाक्षिण्येन सरलत्वेन । भुक्ष्व अनुभव । “दक्षिणे सरलोदारौ" इत्यमरः ॥२३॥ यथेएमिति । ललस्व प्रीति कुरु । “लल ईप्सायाम् " टी.सु.का. इति धातुः॥२४॥२५ ॥ रामानु-ऋदिमित्यादि । ऋदि संपदम् । विष भाम् ॥ २५ ॥ एवमात्मानं प्रशस्य रामं निन्दति-किं करिष्यसीत्यादिना । निक्षिप्तस.२०
प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। भुश्व भोगान् यथाकामं पिव भीरु रमस्व च ॥२३॥ यथेष्टं च प्रयच्छ त्वं प्रथिवीं वा धनानि च। ललस्व मयि विस्त्रधा धृष्टमाज्ञापयस्व च । मत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ २४ ॥ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ २५॥ किं करिष्यसि रामेण सुभगे चीरवाससा । निक्षिप्त विजयो रामो गतश्रीर्वनगोचरः। व्रतीस्थण्डिलशायी च शङ्के जीवति वा न वा ॥२६॥ नहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते। पुरोबलाकैरसितैर्मेधैज्योत्स्नामिवावृताम् ॥२७॥ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः।
हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८॥ विजयः त्यक्तविजय इत्यर्थः । स्थण्डिलशायी भूतलशायी ॥२६।। नहीति । वाशब्दोऽवधारणे, द्रष्टुमपि नोपलप्स्यत एवेत्यर्थः । दर्शनमात्रफलमपि। दर्शनं (च) न प्राप्स्यतीत्यर्थः पुरोऽने बलाका येषां ते पुरोबलाकाः तैः । अनेन मेघानामतिविपुलतोच्यते । महामेष्वेव बलाकासञ्चार वर्णनात् ॥२७॥ रामानु-नहीति । वाशब्दोऽवधारणे । द्रष्टुं वा नोपलप्स्पत एवेत्यर्थः । पुरोवलाकैरसितारीत विशेषणादर्षासंबन्धिता द्योत्यते ॥ २७॥ न चापीति । हिरण्या। प्रतिकर्मति । दाक्षिण्येन, मयीति शेषः॥२३॥ ललन्ता रमन्ताम् । वस्तुतस्तु-मत्प्रसादात मयि प्रसादोऽनुमहः तस्मात तब ललन्त्याः रमन्त्याः सत्याः बान्धवाश्च रमन्तामिति सम्बन्धः॥ २४ ॥ ऋद्धिमित्यादीनां वास्तवार्थस्तु-सरामाऽहं तेऽखिलसम्पत्तभुद्धिं ददामि मां रामेण सह संयोजयेत्याशङ्कच नाहं सम्पदाद्यर्थी किन्तु मोक्षकामी अतो यावन्मोक्षं त्वत्पादाज न त्यजामीत्यभिप्रायेणाह-ऋद्धिं ममेत्यादिल्लोकचतुष्टयेन । हे सुभगे ! मम ऋद्धयादिकं पश्य । निक्षिप्तविजयः स्वतस्सिद्धविजय इत्यर्थः । वनगोचर वनं जलं गोचरं निवासस्थानं यस्य सः नारायण इत्यर्थः । अत एव गतश्री गता प्राप्ता श्री लक्ष्मीः येन अत एव । प्रतिभक्तसंरक्षणव्रतशीलः अत एव पितृवाक्यपरिपालनाय स्थण्डिलशायी यो रामः, अबीरवाससेति छेदः । चीरवासोरहितेन पीताम्बरधारिणेत्यर्थः ।
एतादृशेन तेन रामेण सह वा त्वम् इदानीं विद्यमानेश्वर्थाद्यपेक्षया न किममि करिष्यसीति शङ्के मन्ये अतो जीवति, मयि सतीति शेषः । रामस्त्वां द्रष्टुमपि Mनोपलस्यते न च मम हस्तात त्वां राघवः प्रानुमईति, मदधानन्तरं रामस्त्वां द्रष्टुमप्युपलप्स्यते प्राप्नुमप्पईतीति भावः । हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगता
॥६५॥
For Private And Personal