SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir त्वामिति । कः अतिवर्तेत ? न कोऽपीत्यर्थः ।। १४-१९॥ असकृदिति । विमृदितध्वजाः भनवजाः । प्रत्यनीकेषु शबषु मध्ये ॥२०॥ इच्छयेति ।। त्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । कः पुमानतिवर्तेत साक्षादपि पितामहः ॥ १४॥ यद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने। तस्मिस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्धयते ॥ १५॥ भव मैथिलि भार्या मे मोहमेनं विसर्जय । बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः। सर्वासामेव भद्रं तेममाग्रमहिषी भव ॥१६॥ लोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै। तानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ १७॥ विजित्य पृथिवीं सर्वी नाना नगरमालिनीम् । जनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥१८॥नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलोभवेत्। पश्य मे सुमहद्रीर्यमप्रतिद्वन्द्रमाहवे ॥ १९॥ असकृत् संयुगे भना मया विमृदितध्वजाः। अशक्ताः प्रत्यनीकेषु स्थातु मम सुरासुराः॥२०॥ इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥२१॥ सप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च । साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥२२॥ प्रतिकर्म अलङ्कारः। “प्रतिकर्म प्रसाधनम्" इत्यमरः । अवसज्यन्ताम् अर्यन्ताम् । प्रतिकर्मणा संयुक्तं पश्यामि पश्येयम् ॥२१ ॥२२॥ पुनः स उत्तमरूपनिर्माणे यतेत न तथापि तवोपमेत्याशयः ॥ १३ ॥ त्वामिति । नातिवतेत न क्षुभ्येत । कः पुमानतिवतेत इति पाठे न कोप्यतिक्रमेतेत्यर्थः ।। वस्तुतस्तु-मदाराधने तव बुद्धिः कथं स्यादत आह-त्वामिति । त्वां लक्ष्मीम् “ सीता लक्ष्मीवान विष्णुः" इति वक्ष्यमाणत्वात् । समासाद्य साक्षात्पितामहोऽपि नातिवर्तेत अनाराधितुं न शक्नुयात् पुमास्तु को वा अतिवतेंतेत्यर्थः ॥ १४॥ यद्यदिति । गात्रम् अवयवविशेषम् । तस्मिस्तस्मिन् अवयवविशेष चक्षुर्निबध्यते इष्टdi देवतायास्तव दर्शनस्य मुक्तिसाधकत्वादिति भावः ॥ १५॥ भवेति प्रकृतार्थः स्पष्टः। वस्तुतस्तु-भवेति । मैथिली भार्या भया कान्स्या आर्या श्रेष्ठा भव एतं। मोई मयि शत्रुत्वशङ्का विसर्जय । मे मम उत्तमस्त्रीणां मम या अग्रमहिषी मन्दोदरी तस्याश्च मम च भव, ईश्वरीति शेषः ॥ १६॥ लोकेभ्य इत्यस्य वास्तवार्थस्तु-10 इष्टदेवतायै देव्यै रावणः स्वात्मात्मीयसमर्पणं करोति-लोकेभ्य इति श्लोकद्वयेन । अहमित्यनेनात्मसमर्पणम् । रत्नानीत्यादिना आत्मीयसमर्पणमिति ज्ञेयम् ॥१७॥ तव हेतोः त्वत्प्रीत्यर्थम् ॥ १८॥ प्रतिबलो युद्धे जेता ॥ १९ ॥ प्रत्यनीकेषु शत्रुषु ॥ २०॥ इच्छयेति । वस्तुतस्तु-मां लक्ष्मीम, सम्पदमित्यर्थः ॥२१॥ प्रतिकर्मणा युक्तं ते रूपं पक्ष्यामि । भाविकमत्रालङ्कारः ॥ २२ ॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy