SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥६४॥ www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir अत्यन्तम् । यथाकामं यथेच्छम् ॥ ५ ॥ ६ ॥ देवीति । प्रणयस्व स्नेहं कुरु ॥७॥ एकवेणीति । एकवेणी असीमन्तितवेणी । घराशश्या भूशयनम् || औपयिकानि युक्तानि । “ युक्तमौपयिकम् ” इत्यमरः ॥ ८-१० ॥ स्त्रीरत्नमिति । मां प्राप्य हीति । हिः पादपूरणे अप्यर्थो वा । हे सुविग्रहे मां देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥ एकवेणी धराशय्या ध्यानं मलिनमम्बरम् । अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥ विचित्राणि च माल्यानि चन्दना न्यगुरूणि च । विविधानि च वासांसि दिव्यान्याभरणानि च ॥९॥ महार्हाणि च पानानि शयनान्यासनानि च । गीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । मां प्राप्य हि कथं नुस्यास्त्वमनह सुविग्रहे ॥ ११ ॥ इदं ते चारु संजातं यौवनं व्यतिवर्तते । यदतीतं पुननैति स्रोतः शीघ्रमपामिव ॥ १२ ॥ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक । न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ १३ ॥ प्राप्यापि कथमनह स्याः ॥ ११ ॥ १२ ॥ उपरतः निवृत्तः । अत्र इतिकरणं द्रष्टव्यम् । उत्तरोत्तरं सातिशयं रूपं सिसृक्षुर्विधाता त्वां सृष्ट्वा इतः परं सातिशयं रूपं त्रष्टुं न शक्यत इति धिया सृष्टेरूपरत इति मन्य इत्यर्थः ॥ १३ ॥ शरीरे काममत्यर्थम् यथाकामं यथेच्छं कामः प्रवर्ततां नाम मन्मथविकारोऽस्तु नाम, तथाप्येतत्सर्वं ममेष्टदेवतायां त्वयि न घटत इति शेषः । अत एव अकामां मयि भृत्यत्वकामनारहिताम् । यद्वा अकाम विष्णुकामां त्वां न स्प्रक्ष्यामि त्वदाज्ञां विना पूजां कर्तुमपि विभेमीति शेषः ॥ ५ ॥ ६ ॥ देवीनि । प्रणयस्व प्रसीद ॥ ७ ॥ एकेति । धराशय्या भूशयनम् । नौपयिकानि न युक्तानि ॥ ८ ॥ विचित्राणीत्यादिः स्पष्टार्थः । वस्तुतस्तु-विचित्राणीत्यादिश्लोकद्वयमेकं वाक्यम् । मां प्राप्य, भृत्यत्वेनेति शेषः । माल्यादीनि लभ प्राप्नुहीति सम्बन्धः ॥ ९ ॥ १० ॥ स्त्रीरत्नमिति । मां प्राप्य हि प्राप्यापि भूषणादीनामनर्हा स्या इति सम्बन्धः ॥ ११ ॥ इदमिति । यदिदं ते सञ्जातं यौवनं तत् व्यतिवर्तते अतिक्रम्य गच्छति । अतीतं न पुनरेति । अतो भुङ्क्ष्व भोगानिति शेषः । वस्तुतस्तु त्वत्पूजाक्षमं मदीयमायुः व्यर्थे गच्छतीति स्विद्यति इदं ते इति । ते तव भृत्यस्य, ममेति शेषः । यौवनं दाढयवस्था यद् यतो भृत्यस्य ममायुः व्यर्थे गच्छति, अतो मम तव पूजार्थमनुज्ञां | देहीति शेषः ॥ १२ ॥ रूपकर्ता दिव्यरूपस्स्रष्टा त्वां कृत्वा निर्माय उपरतो दिव्यरूपनिर्माणाद्विरत इति मन्ये । उन्मेक्षायां हेतुः हि यतः तव रूपोपमा नास्ति यदि For Private And Personal टा.सु.का. स० २० ॥६४॥
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy