________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagasun Gyanmarde
समीक्षमाणा रक्षकं समीक्षमाणाम् । सुपक्ष्मेति अन्ते तानं मध्ये शुकृमस्या लोचनमित्युच्यते ॥ २३ ॥ इति श्रीगोविन्दराजविराचिते श्रीरामायण । भूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने एकोनविंशः सर्गः ॥१९॥ स तामित्यादि । साकारैः सेङ्गितः। “आकाराविङ्गिताकृती" इत्यमरः । समीक्षमाणां रुदतीमनिन्दितां सुपक्षमताम्रायतशुक्ललोचनाम् । अनुव्रता राममतीव मैथिली प्रलोभयामास वधाय रावणः ॥ २३ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे एकोनविंशः सर्गः ॥ १९॥
स तां पतिव्रतां दीनां निरानन्दा तपस्विनीम् । साकारैर्मधुरैर्वाक्यैर्त्यदर्शयत रावणः ॥१॥ मां दृष्ट्वा नाग नासोरु गृहमाना स्तनोदरम् । अदर्शनमिवात्मानं भयानेतुं त्वमिच्छसि ॥२॥ कामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । सर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे॥३॥ नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः। व्यप सर्पतु ते सीते भयं मत्तः समुत्थितम् ॥४॥ स्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । गमनं वा परस्त्रीणां हरणं
संप्रमथ्य वा॥५॥ एवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । काम कामः शरीरे मे यथाकामं प्रवर्तताम्॥६॥ न्यदर्शयत, स्वाभिप्रायमिति शेषः। सीतायै स्वाभिप्रायं प्रकाशितवानित्यर्थः ॥३॥ अदर्शनं अदृश्यत्वम ॥२॥ मां दृष्ट्वा भीतिर्न कर्तव्येत्याहकामय इति ॥३॥ अन्ये च भयहेतवोऽत्र न सन्तीत्याह-नेहेति ॥ ४॥ परदारेच्छादोष इत्याशङ्कयाह-स्वधर्म इति । संप्रमथ्य बलात्कृत्य । कामम् मायाचमानामिव प्रार्थयन्तीमिवेति सम्बन्धः ॥२२॥२३॥ इति श्रीमहेश्वरतीर्थ० श्रीरामायणतत्त्वदीपिकाख्यायी सुन्दरकाण्डव्याख्यायामेकोनविंशः सर्गः ॥१९॥
स इति । साकारैः साभिप्रायः, सेङ्गितेरित्यर्थः । न्यदर्शयत, स्वाभिप्रायमिति शेषः ॥ १॥ अदर्शनम् अदृश्यत्वम् । मयादिव नेतुं नाययितुम् । वस्तुतस्तु पुत्रसमभृत्यदर्शनविषये भयादिक नोचितमिति भावः ॥२॥ कामय इति । वस्तुतस्तु-त्यो कामये, ईश्वरीत्वेनेति शेषः । अतो मा बहुमन्यस्व ॥ ३ ॥ नेहेति । मनुष्या राक्षसा वा, त्वद्भयकर्तार इति शेषः । वस्तुतस्तु-सर्वेश्वर्यास्तव न कुत्रापि भयशङ्केति भावः ॥ ४॥ पापि परशरामिमर्शः स्वधर्मः तथापि नाई त्वामकामयमाना स्पक्ष्यामीत्याह-स्वधर्म इत्यादिश्लोकद्वयेन । काममत्यर्थम् । यथाकामं यधेच्छं मे शरीरे कामः, तवेनि शोषः। ममि तव इच्छा प्रवर्ततामिति भावः । स्वधर्म इत्यादिश्लोकद्वयस्थ वास्तवार्थस्तु-कामुका त्वं न विश्वसनीय इत्यत आह-स्वधर्म इत्यादि । यद्यपि रक्षसो परवाराहरणादिः स्वधर्मः स्वभावः। मे.
For Private And Personal