________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
आविष्टां मणिमन्त्राद्यभिभूताम् । धूप्यमानां सन्तप्यमानाम् । धूमः केतुरिव धूमकेतुः, केतुना ग्रहेणेत्यर्थः । यदा ग्रहेण ग्राहकेण आच्छादके जानेति धूमकेतुर्विशिष्यते ॥९॥ वृत्तेति । वृत्तं दृढं शीलं स्वभावो यस्य तत् तच्च तत् कुलं च तस्मिन् । आचारवति समयाचारवति । धार्मिक यज्ञादिधर्मप्रधाने एवंभूते कुले जाताम् । संस्कारमापन्नां विवाहरूपसंस्कारमापन्नाम् । अतः संस्कारद्वारा दुष्कुले पुनर्जातामिव स्थिताम् । कुमाराणा
समीपं राजसिंहस्य रामस्य विदितात्मनः । सङ्कल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः ॥ ७॥ शुष्यन्ती रुदतीमेकां ध्यानशोकपरायणाम् । दुःखस्यान्तमपश्यन्ती रामा राममनुव्रताम् ॥८॥वेष्टमानां तथाऽऽविष्टां पन्नगेन्द्रवधूमिव । धूप्यमानां ग्रहेणेव रोहिणी धूमकेतुना ॥९॥ वृत्तशीलकुले जातामाचारवति धार्मिके। पुनः संस्कारमापा जाता मिव च दुष्कुले ॥१०॥ अभूतेनापवादेन कीर्ति निपतितामिव । आम्नायानामयोगेन विद्या प्रशिथिलामिव ॥११॥ सन्नामिव महाकीर्ति श्रद्धामिव विमानिताम् । पूजामिव परिक्षीणामाशां प्रतिहतामिव ॥१२॥ आयतीमिव विध्वस्ता माज्ञा प्रतिहतामिव । दीप्तामिव दिशं काले पूजामपहृतामिव ॥ १३॥ मुपनयनमिव कुमारीणां विवाहो द्वितीयं जन्म। “वैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतः" इति स्मृतेः॥१०॥११॥ सन्त्रां क्षीणाम् । श्रद्धामिव विमानिताम् अवमानितामित्यर्थः । अवमाने हि कृते अवमन्तरि श्रद्धा मन्दीभवति । पूजामिव परिक्षीणां स्वल्पपूजाद्रव्यामित्यर्थः । प्रतिहतां । निष्फलाम् ॥१२॥ आयती धनलाभम् । विश्वस्तां मन्दीभूताम् । प्रतिहताम् अननुष्ठिताम् । दीप्ता दाहयुक्ताम् । काले उत्पातकाले । पूजामपहृतामिव । कर्बुरगात्रीम, तां ददशति पूर्वेण सम्बन्धः॥ ५॥६॥ सङ्कल्पहयसंयुक्तः सङ्कल्पाः पवमेवं करिष्यामीति विचाराः, त एव हयाः तत्संयुक्तैः मनोरथैः रामस्य समीप यान्तीं गतामिव स्थिताम् ॥ ७॥ ८॥ आविष्टा मणिमन्त्रादिमिरमिभूताम् । धूप्यमानां सन्तप्यमानाम् ॥९॥ वृत्तशीलकुले जातो वृत्तं मर्यादानुल्लङ्घनम्, शीलं तत्स्वभावः। आचारवति विहितकर्मानुष्ठानवति । दुष्कुले संस्कारमापा दुष्कुले पाणिग्रहणलक्षणं संस्कार प्राप्ताम् अत एव दुष्कुले पुनर्जातामिव जिवाहलक्षण द्वितीयं जन्म गताम्, सत्कुलप्रसूता दुष्कुलोढामित्यर्थः । खीणां विवाहस्योपनयनस्थानत्वात्तदेव द्वितीयं जन्मेति भावः ॥ १०॥ ११॥ सन्नो क्षीणाम् । विमा Mनिताम् अनाहताम् ॥ १२ ॥ आयतीमागामिफलम् । दीप्ता दह्यमानाम् । काले उत्पातकाले ॥ १३ ॥ १४ ॥ | स०-धार्मिके एतादृशे पितृकुले जाता । सैव दुष्कुले वृत्तादिरहित विधा हाक्ष्यसंस्कारेण पुनर्जाता चेत्सा यथा वर्तेत तथा विद्यमानाम् ॥ १० ॥
For Private And Personal