SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir बा.रा.भ. ॥६॥ टी..का. अवप्लुतः अवरूढः । रावणचेष्टास्सर्वा द्रष्टुं पूर्वस्थानाध शाखां समाश्रित इत्यर्थः॥३०॥ सः हनुमान् । तथा पूर्वोक्तरीत्या । उग्रतेजास्सन्नपि । तस्य रावणस्य। तेजसा निधूतः सन् । पत्रगुह्यान्तरे पत्रगूढप्रदेशे । संवृतोऽभवत गूढोऽभवत् ॥ ३१ ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने अष्टादशः सर्गः ॥ १८॥ तस्मिन्नित्यादिश्लोकद्वयमेकान्वयम् । ततः रावणागमना। वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः। तं ददर्श महातेजास्तेजोवन्तं महाकपिः॥२९॥रावणोऽयं महाबाहुरिति संचिन्त्य वानरः। अवप्लुतो महातेजा हनुमान मारुतात्मजः॥३०॥स तथा प्युग्रतेजाःसन् निधूतस्तस्य तेजसा। पत्रगुह्यान्तरे सक्तो हनुमान संवृतोऽभवत् ॥३॥स तामसितकेशान्तां सुश्रोणी संहतस्तनीम् । दिदृक्षुरसितापागा मुपावर्तत रावणः ॥३२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे अष्टादशः सर्गः ॥१८॥ तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता। रूपयौवनसम्पन्नं भूषणोत्तमभूषितम् ॥१॥ ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम् । प्रावेपत वरारोहा प्रवाते कदली यथा ॥२॥ आच्छाद्योदरमूरुभ्यां बाहुभ्यां च पयोधरौ । उप विष्टा विशालाक्षी रुदन्ती वरवर्णिनी ॥३॥ दशग्रीवस्तु वैदेही रक्षितां राक्षसीगणैः । ददर्श सीता दुःखार्ती नावं सन्नामिवार्णवे ॥ ४॥ असंवृतायामासीनां धरण्यां संशितव्रताम् । छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः ॥५॥ मलमण्डनचित्राङ्गी मण्डनार्हाममण्डिताम् । मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥६॥ नन्तरम् । तस्मिन्नेव काले तदागमनानन्तरकाल एव । भूषणोत्तमभूषितं रूपयौवनसम्पन्नं रावणं ततो दृष्ट्वेव तत्र दूरदेश एवं दृष्ट्वा प्रावेपतेति संबन्धः। ॥१-५॥ मलमण्डनचित्राङ्गी मलरूपमण्डनेन चित्राङ्गीम्, मलावृतामप्याश्चर्यावहदेहामित्यर्थः। मृणाली पङ्कदिग्धेवत्यत्र येत्यध्याहार्यम् ॥६-८॥ अवप्लुनः रावणरूपचेष्टितावलोकनार्थमनविटपारूढ इत्यर्थः ॥ ३० ॥ पत्रगुह्यान्तरे पनगूढप्रदेशे ॥ ३१ ॥ उपावर्तत समीपं प्राप्तः ॥ ३२ ॥ इति श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां सुन्दरकाण्डव्याख्यायामष्टादशः सर्गः ॥ १८॥ तस्मिन्नित्यादिश्लोकद्वयमेकं वाक्यम् । तस्मिन्नेव काले आगमनकाल एव । तं रावणम् ॥ १॥ ततो दृष्ट्वा तत्र दूरदेशे एवं दृष्ट्वा । ततः दर्शनानन्तरं प्रावेपतेति सम्बन्धः ॥२॥ रुदन्ती उपविष्टाऽभूत । भीतस्वभावोत्या स्वभावोक्तिरवालङ्कारः ॥३॥ दशग्रीव इति । सन्नो शीर्णाम् नावम् ॥ ४ ॥ संशितव्रताम् अतितीक्ष्णव्रताम् । मलमण्डनचित्राङ्गी मलमेष मण्डनं तेन चित्राङ्गी ॥६२॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy