SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyarmandir मदेनाञ्चिता गतिर्यस्य स मदाञ्चितगतिः ॥ १९॥२०॥ तं चेत्यादि । दारदेशम् अशोकवनद्वाग्देशम् ॥ २१॥ गन्धतैलं गन्धवासित - तेलम् ॥२२॥ समक्ष प्रत्यक्षम् । अपविद्धशरासनम् अधृतशरासनम् ॥ २३॥ मथितामृत फेनाभं मथितं तक्रम् अमृतं धारोष्णं तयोर्यत् फेन । तदाभम् । “निरम्बु बोलं मथितं धारोष्णं त्वमृतं पयः" इत्युभयत्र वैजयन्ती । विमुक्तं स्वस्थानात्प्रचलितम् अङ्गदे सक्तं वस्त्रं सलीलं यथा भवति सच कामपराधीनः पतिस्तासां महाबलः। सीतासक्तमना मन्दो मदाश्चितगतिर्बभौ ॥ १९॥ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम् । शुश्राव परमस्त्रीणां स कपिारुतात्मजः ॥ २०॥ तं चाप्रतिमकर्माणमचिन्त्यबल पौरुषम् । द्वारदेशमनुप्राप्तं ददर्श हनुमान कपिः ॥२१॥ दीपिकाभिरनेकाभिः समन्तादवभासितम् । गन्धतैलाव सिक्ताभिर्धियमाणाभिरग्रतः॥ २२ ॥ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम् । समक्षमिव कन्दर्पमपविद्धशरासनम् ॥२३॥ मथितामृतफेनाभमरजो वस्त्रमुत्तमम् । सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे ॥२४॥ तं पत्रविटपे लीनः पत्रपुष्पधनावृतः। समीपमिव संक्रान्तं निध्यातुमुपचक्रमे ॥ २५ ॥ अवेक्षमाणस्तु ततो ददर्श कपिकुञ्जरः । रूपयौवनसम्पन्ना रावणस्य वरस्त्रियः॥२६॥ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः। तन्मृगदिनसंपुष्टं प्रविष्टः प्रमदावनम् ॥ २७॥क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः । तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः ॥२८॥ तथा अनुकर्षन्तमित्यन्वयः ॥२४॥ तमिति । पत्रविटपं पत्रवति विटपे। लीनः छत्रः । पत्रपुष्पधनावृतः पत्रपुष्पसमूहावृतः। इवशब्दो वाक्यालङ्कारे। यद्धा दूरे समागतमपि तेजसा समीपे संक्रान्तमिव स्थितम् । तं निध्यातुं द्रष्टुमुपचक्रमे । “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्" इत्यमरः ॥२५॥२६॥ प्रमदावनम् अन्तःपुरोद्यानम् ॥ २७॥ क्षीब इति । क्षीबः मत्तः । शङ्ककर्णः गर्वेण स्तब्धकर्ण इत्यर्थः ॥२८॥२९॥ सम्यगामृष्टाङ्गरागाः॥ १६-१८॥ मन्दो दुर्मतिः । मन्दं यथा तथा अश्चिता गतिर्यस्य ॥ १९ ॥२०॥ द्वारदेशम् अशोकवनिकाप्राकारदेशम् ॥ २१ ॥ २२॥ अपविद्धशरासनं त्यक्तेक्षुचापम् । समक्ष प्रत्यक्ष कन्दर्पमिव स्थितम् ॥ २३ ॥ सलीलमतुकर्षन्तमिति । विमुक्तं स्वस्थानाचलितम् ॥ २४ ॥ पत्रविटपे पत्रबहुला विटपे । निध्यातुमीक्षितुम् ॥ २५॥ २६ ॥ ताभिरिति । प्रमदावनं प्रमदानां वनम् ॥ २७ ॥ क्षीवो मनः ॥ २८ ॥२९॥ १५८ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy