________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
पा.रा.भू.
॥६॥
मित्यादिपरशेषः । राक्षसीवशे अयुक्ताम् अनवस्थिताम्, तद्वचनान्यशृण्वन्तीमित्यर्थः ॥ २३ ॥ २४ ॥ लतां कुसुमितामिव तथा दर्शनीयाटी.सु. मित्यर्थः॥२५॥ मलिनेनेत्यादिश्लोकद्वयमेकं वाक्यम् ॥२६॥२७॥ तामित्यादिश्लोकत्रयमेकं वाक्यम् । क्षमा क्षमामिव स्थिताम् । निगीर्याध्यवसाना स०१७
ददर्श हनुमान देवी लतां कुसुमितामिव । सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता। मृणाली पङ्कदिग्धेव विभाति न विभाति च ॥२५॥ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम् ॥ २६ ॥ संवृतां मृगशावाक्षीं ददर्श हनुमान कपिः। तां देवीं दीनवदनामदीना भर्तृतेजसा। रक्षितां स्वेन शीलेन सीतामसितलोचनाम्॥२७॥ तां दृष्ट्वा हुनुमान सीतां मृगशावनिभेक्षणाम् ॥ २८॥ मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः । दहन्तीमिव निःश्वासैर्वृक्षान पल्लवधारिणः ॥२९॥ सङ्घातमिव शोकानां दुःखस्योमिमिवोत्थिताम् । तां क्षमांसुविभक्ताङ्गी विनाभरणशोभिनीम्। प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम् ॥३०॥ हर्षजानि च सोऽश्रूणितां दृष्ट्वा मदिरेक्षणाम् । मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम् ॥३१॥ नमस्कृत्वा स रामाय लक्ष्मणाय च वीर्यवान् । सीतादर्शनसंहृष्टो हनुमान् संवृतो
ऽभवत् ॥ ३२ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे सप्तदशः सर्गः ॥१७॥ दभेदोक्तिः । तां दृष्ट्वा तां प्रेक्ष्येत्यनयोविशेषणविशेष्यभेदान्न पौनरुक्त्यम् । दूरप्रयुक्तस्यानुस्मरणार्थ वा पुनरुक्तिः ॥ २८-३० ॥ इर्षजानीति । राघवं नमश्चके । उपपदविभक्त्यपेक्षया कारकविभक्तेर्बलीयस्त्वान्नमस्करोति देवानित्यादाविव द्वितीया ॥३१॥ नमस्कृत्वेति । संवृतः राक्षस्यदर्श नाय शिशुपापर्णे'ढोऽभूत् ॥३२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने सप्तदशः सर्गः ॥१७॥ तत्र मन्नाम सग्रहां क्रूरग्रहाविष्टाम ॥२३॥२४॥ लतामकुसुमामिवेति पाठः। आभरणपरिहारादिति भावः। वपुषाऽलंकृता स्वभावरमणीयेत्यर्थः । विभाति न विभाति चेति । स्वभावसौन्दर्यादसंस्काराचेति भावः । अत्र ता तामिति तच्छन्दावृत्या तत्सदवस्थाभेदस्य वर्णितत्वादपौनरुक्त्यम् ॥२५॥२६॥ भर्तृतेजसा भई पराक्रमानु सन्धानेन अदीनहृदयाम् ॥२७-२९॥ दुःखस्य दुःखसागरस्य । अबाधेयेनाधारनिगरणम् । क्षामाम् इति पाठः क्षामा कृशाम् विनाभरणशोभिनीम् आभरणानुग्रहमन पेक्ष्यैव स्वसौन्दर्येण शोभमानाम्॥३०॥ नमश्चक्रे च राघवमिति । भगवतो राघवस्यानु महादेवेयं मया दृष्टेति पुनः पुनः स्मृत्वा नमस्कार॥२१॥ संवृतोऽभवत् राक्ष सीनां दर्शनपरिहाराय सक्ष्मरूपमवलम्ब्य वृक्षमूलसमीपशाखा निलीनोऽभवत् ॥३२॥ इति श्रीमहे श्रीरामायण सुन्दरकाण्डव्याख्यायां सप्तदशः सर्गः ॥१७॥
CH
For Private And Personal