________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandir
I
श तथेत्यादि । विप्रेक्षमाणस्य विचिन्वतश्च । विप्रेक्षमाणे विचिन्वति च तस्मिन्नित्यर्थः। “यस्य च भावेन.-" इत्यथै षष्ठी ॥१॥ विरात्रे अपररात्रे । अहस्सवैकदेशसङ्घचातपुण्याच्च रात्रेः " इत्यत्र चकाराव्ययादुत्तरस्य रात्रिशब्दस्य समासान्तोऽच् प्रत्ययः । ब्रह्मरक्षसां ब्राह्मणत्वविशिष्ट
तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्। विचिन्वतश्च वैदेही किंचिच्छेषा निशाऽभवत् ॥१॥षडङ्गवेदविदुषां ऋतुप्रवरयाजिनाम् । शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम् ॥२॥ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः। प्राबुध्यत महाबाहुर्दशग्रीवो महाबलः॥३॥ विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतापवान् । सस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत् ॥ ४॥ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः। न स तं राक्षसः कामं शशाकात्मनि गृहितुम् ॥५॥ स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम् । तां नगैर्बहुभिर्जुष्टां सर्वपुष्पफलोपगैः ॥६॥ वृतां
पुष्करिणीभिश्च नानापुष्पोपशोभिताम् । सदामदैश्च विहगैर्विचित्रां परमाताम् ॥७॥ रक्षसाम् । ब्रह्मघोषान् वेदघोषान् ॥२-४॥ नियुक्तः प्रेरितः ॥५-७॥
तथेति । किश्चिच्छेषा अपरयाममात्रशेषा । विचिन्वतः तस्याः स्पष्टदर्शनाय राक्षसीनिद्रारूपमवसरमन्वेषयतः॥१॥ षडङ्गानि शिक्षादीनि । विरात्रिः विपर्यस्त रात्रिः, अपररात्र इत्यर्थः । अस्मिन् ब्रह्मरक्षसां ब्राह्मणत्वविशिष्टराक्षसानाम् ॥ २ ॥३॥ निद्रावशादेव म्रस्तमाल्याम्बरधरः ॥॥ नियुक्तः प्रेरितः वस्तुतस्तु मदने सत्यपि मदेनोत्कटो न अत एव तस्यां सीतायां नियुक्तः नितरां युक्ता, विनीत इत्यर्थः । अत एव राक्षसः काममात्मनि गृहितुं न शशाकेति काकुः॥ ५-७॥
तिल-भृशं नियुक्त गूढाभिनिवेशचित्तः । काम कामवेगम । इदृशेषु तीर्थस्यान्ययायोजन प्रान्त्येव । रक्षसस्तमोगुणाविष्टस्य भगवन्मायामोहितस्याकृत्येष्वेन प्रपत्तेः । तथा क्रियमाण भगवदयानमपि पाप मोगोचरं जन्मान्तरे उत्तमफलायेति बोध्यम् । अत एव कक्षाश्वमेधनाम्नो राज्ञो दानातावकमन्त्र:-"न युष्मे वाजवन्धवो निनित्सुश्च न मयः । सत्यमधि दीपरत्" इति । अस्यार्थः-बाजमित्यजनाम, अम दानेन ये सर्वेषां बन्धवस्तेषां सम्बोधनम् । हे वाजवन्धवः । युष्मे युष्मासु । अविस्मसम्पानुवादी। निनित्सुश्च निन्दनेच्छाशीलोपि मर्यः अवयं न दीपरत् न धारपति । मदनुसन्धानेनेव निष्पापत्वादिति । एवथ भगवतो निन्दावरुदभावेन ध्यानमपि नरकभोगोत्तरं जन्मान्तरे उचमफलाय, अत एवास्थ मरणोत्तरं चतुर्थचतुर्युग्या चेदिराजकुले जन्म, चतुर्विशतिचतुर्युग्यां रामावतार इति हरिवंशोक्तः । तावत्पर्यन्तं चैतत्पापफक भोग इत्पर्यायतमिति योण्यम् ॥५॥
For Private And Personal