________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
॥५८॥
असह्यमित्यर्थः । एकस्थहृदया एकाग्रचित्ता । राममेवानुपश्यति घ्यायतीत्यर्थः। रामागमनसंभावनावती दिशोऽवलोकयतीति वाऽर्थः। यदा निरन्तरेण रामानुभवेन परिसरवर्ती कोऽपि पदार्थों न दृष्टिपथं गच्छतीत्यर्थः ॥२५-२७॥ इमामिति । असितः केशान्तः यस्यास्ताम् । केशानामये नेल्यं स्त्रीणां ।
टी.इं.का. दुर्लभम् । अतस्तदेवाह असितकेशान्तां गुडालकावृतस्यापि व्यामोहकरीम् । शतपत्रनिभेक्षणां यद्यपीयमसितेक्षणा तथापि संस्थानविशेषे उपमेयम् । स. १६ इमामसितकेशान्तां शतपत्रनिभेक्षणाम् । सुखाही दुःखितां दृष्ट्वा ममापि व्यथितं मनः ॥ २८ ॥ क्षितिक्षमा पुष्करसन्निभाक्षी या रक्षिता राघवलक्ष्मणाभ्याम् । साराक्षसीभिर्विकृतेक्षणाभिःसंरक्ष्यते संप्रति वृक्षाले ॥२९॥ हिमहतनलिनीव नष्टशोभा व्यसनपरम्परयाऽतिपीड्यमाना । सहचररहितेव चक्रवाकी जनकसुता कृपां दशां •प्रपन्ना ॥ ३०॥अस्या हि पुष्पावनताग्रशाखाः शोकं दृढं वै जनयन्त्यशोकाः। हिमव्यपायेन च मन्दरश्मिरभ्यु
त्थितो नैकसहस्ररश्मिः ॥ ३१ ॥ कमलपत्राक्षस्यापि व्यामोहदायिनीम् । सुखाही रामोत्सङ्गे स्थातुमर्हाम् । दुःखितां राक्षसीमध्ये स्थितां दृष्ट्वा ममापि व्यथितं मनः, शाखामृगस्य ममापि । मनो व्यथितम्, किमुत परमदयालो रामस्योति भावः। शोकहर्षयोरपदस्य ममापि मनो व्यथितम् किंपुनः कामिन इति वा ॥२८॥२९॥ हिमहतेति ।। हिमइतेति विशेषणेन नलिन्याः पूर्व बहुकालशोभितत्वं सिद्धम्, तदन्नष्टशोभा द्वादशवर्षे निष्प्रतिबन्धं भोगान भुञानाया आगन्तुको हि विश्लेषः तेन Mहि नष्टशोभेत्युक्तम् । व्यसनपरम्परया विरह इव संश्लेषोपि मध्ये मध्ये नागत्य निवृत्तः व्यसनमेव नैरन्तर्येण वृत्तम् । अतिपीड्यमाना अतिकम्य ॥
पीड्यमाना, आश्रयाननुरूपं व्यसनमनुभवन्तीत्यर्थः । सहचररहितेव चक्रवाकी लाभकालमवगम्य दुःखं सोढुमसमर्था । चक्रवाकीसाम्येनायमों लभ्यते-सा हि रात्रिविरामकालं प्रबुध्य दुःखं सोढुमदक्षेति प्रसिद्धम् । जनकसुता एवं व्यसनं भविष्यतीति ज्ञात्वा न संवर्धिता, केवलं सुखसंवर्धितेत्यर्थः। कृपणां दशां प्रपन्ना । पूर्वोक्तनलिन्यादिकं नोपमानं भवितुमर्हति । किञ्चिदुक्तिमात्रम् । वाङ्मनसाऽपरिच्छेद्या दुर्दशा प्राप्तेत्यर्थः॥३०॥ हिमव्यपायेन इमामिति । ममापि, किमुत परमदयालो रामस्येति भावः ॥ २८ ॥ क्षितिरिव क्षमा क्षान्तिर्यस्याः सा क्षितिक्षमा ॥ २९ ॥३०॥ अशोकाः शोकं जनयन्ति ॥८॥ हिमग्यपायेन नैकसहस्ररश्मिः मन्दरश्मिश्च अतीक्ष्णरश्मिा, शीतांशुरिति यावत् । अभ्युत्थितः सन्, शोकं जनयतीति शेषः ॥ ३१ ॥
For Private And Personal