________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
सर्वान् भोगान्, भुज्यन्ते इति भोगाः शुकसारिकाकन्तुकप्रभृतिभोगसाधनानि मातृप्रभृतींश्च । परित्यज्य परि विशेषेण पुनस्तत्राशालेशं विनेव। त्यक्त्वा। अयं च परित्यागो न स्ववशेनेत्याह भर्तृस्नेहबलात्कृता । अभिमतविषयस्नेहातिरेकस्तदितरमखिलमपि त्याजयति हि । त्यक्तेषु स्मरणा भावेऽपि गन्तव्यदेशीयदुःखं वा किं स्मरति ?नेत्याह अचिन्तयित्वा दुःखानि । रामातिरिक्तवस्त्वनुभवे हि दुःखानुभवसम्भावनेति भावः । प्रविष्टा निर्जन सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता । अचिन्तयित्वा दुःखानि प्रविष्टा निर्जन वनम् ॥ १९॥ सन्तुष्टा फलमूलेन भर्तृशुश्रूषणे रता । या परी भजते प्रीतिं वनेऽपि भवने यथा ॥२० ॥ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी। सहते यातनामेतामनर्थानामभागिनी ॥२१॥ इमां तु शीलसम्पन्ना द्रष्टुमर्हति राघवः । रावणेन प्रमथितां प्रपामिव पिपासितः ॥ २२ ॥ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम् ॥ २३॥ कामभोगैः परित्यक्ता हीना बन्धुजनेन च । धारयत्यात्मनो देहं तत्समागमकांक्षिणी ॥२४॥ नैषा पश्यति राक्षस्यो नेमान् पुष्पफलदुमान् । एकस्थहृदया नूनं राममेवानुपश्यति ॥२५॥ भर्ता नाम परं नार्या भूषणं भूषणादपि । एषा तु रहिता तेन भूषणार्हा न शोभते ॥२६॥ दुष्करं कुरुते रामो हीनो यदनया
प्रभुः। धारयत्यात्मनो देहं न दुःखेनावसीदति ॥२७॥ वनम्, भोगस्यैकान्तस्थलमिति ह्यस्या हृदि लग्नमिति भावः ॥ १९॥२०॥ यातनां तीबदनाम् । अनर्थानामभागिनी आपदामनर्हेत्यर्थः ॥२१॥ प्रपां पानीयशालिकाम् । “प्रपा पानीयशालिका" इत्यमरः ॥२२॥ २३ ॥ काम्यन्त इति कामाः ते च ते भोगाश्च स्रक्चन्दनादयः तैः ॥२४॥ नेपा पश्यति राक्षस्यः राक्षसीन पश्पति । नेमान् पुष्पफलद्रमान, रामविरहक्केशातिशयेन राक्षसीदर्शनवत् सुपुष्पफलवतां दुमाणामपि दर्शनमस्याः|| भर्तृस्नेहबलात्कृता भर्तुः स्नेहबलाजीवतीत्यर्थः ॥ १९ ॥ २० ॥ यातना तीव्रवेदनाम् । अनर्थानामभागिनी आपदामनहीं ॥ २१॥ प्रपा पानीयशालाम् ॥ २२ ॥ २३॥ कामेति । कामभोगैः काम्यन्त इति कामाः ते च ते भोगा: सक्चन्दनादयः ॥ २४ ॥ राक्षस्या राक्षसी । एकस्थहदया एकाग्रचित्ता ॥२५॥२६॥ प्रभुः रामः अनया हीनःसन आत्मनो देई धारयति शोकेन नावसीदतीति च यत् पतत दुष्करं कुरुत इति सम्बन्धः ॥२७॥
For Private And Personal