________________
Shri Mahavir Jain Aradhana Kendra
www.bath.ang
Acharya Shri Kalashsagarsun Gyarmande
अनया हेतुनेत्यर्थः ॥७-१०॥ ऐश्वर्यमिति । अस्या निमित्ते " निमित्तकारणहेषु सर्वांसां प्रायदर्शनम्" इति षष्ठी सप्तम्यर्थे । अस्या निमित्ते सत्या मित्यर्थः॥११॥१२॥ परिवर्तयेत् अधरोत्तरां कुर्यात् । अस्याः कृते एतदर्यम् । जगच्चापि, न केवळं मेदिनी सर्वलोकानपि परिवर्तयेदित्यर्थः॥१३॥
टी.ई. विराधश्च हतः सङ्खये राक्षसो भीमविक्रमः । बने रामेण विक्रम्य महेन्द्रेणेव शम्बरः ॥८॥ चतुर्दश सह स्राणि रक्षसां भीमकर्मणाम् । निहतानि जनस्थाने शरैरमिशिखोपमैः ॥९॥ खरश्च निहतः सङ्ख्ये त्रिशिराश्च निपातितः। दूषणश्च महातेजा रामेण विदितात्मना ॥१०॥ ऐश्वर्य वानराणां च दुर्लभं वालिपालितम् । अस्या निमित्ते सुग्रीवः प्राप्तवान् लोकसत्कृतम् ॥ ११ ॥सागरश्च मया क्रान्तः श्रीमानदनदीपतिः । अस्या हेतो विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२॥ यदि रामः समुद्रान्त मेदिनीं परिवर्तयेत् । अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥१३॥राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा। त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात् कलाम् ॥१४॥ इयं साधर्मशीलस्य मैथिलस्य महात्मनः । सुताजनकराजस्य सीता भर्तृढवता ॥१५॥ उत्थिता मेदिनी भित्त्वा क्षेत्रे हलमुखक्षते । पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः ॥ १६॥ विक्रान्तस्यार्य शीलस्य संयुगेष्वनिवर्तिनः। स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी ॥ १७॥ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः । इयं सा दयिता भार्या राक्षसीवशमागता ॥१८॥ राज्यं वेति । राज्यमुत्कृष्टं वा सीता उत्कृष्टा वा, इति विचार्यमाण इति शेषः । कला लेशम् ॥ १४ ॥ भर्तृढवता भरि दृढवता । केदारपांसुभिः यज्ञक्षेत्रपांसुभिः॥ १५॥ १६ ॥ आर्यशीलस्य श्रेष्ठस्वभावस्य ॥ १७॥१८॥
मिति । अस्या निमित्त इति सप्तम्प पाठी । अस्या निमित्तभूनायो सत्यामित्यर्थः॥११॥॥ रामः मेदिनी किव जगच, सर्वलोकानपीत्यर्थः । अस्याः कृते सीतार्य परिवर्तवेद्यदि अपरोत्तरी कुर्यात, संहरोदित्यर्थः । युक्तमित्येव मे मतिरिति सम्बन्धः ॥१५॥ राज्यमुत्कृष्ट वा सीता उत्कृष्टा वा
Pun इति विचार्यमाणे सतीति शेषः । कला लेशम् ॥ १४ ॥ मत्स्टबता मर्तरि बढव्रता ॥ १५-१८॥
For Private And Personal