________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyarmandie
प्राप्तं तदा कालो दुरतिक्रम एवेति भावः॥३॥रामस्येति । व्यवसायज्ञा स्वयत्नं विहाय तव्यवसायमेव प्रेक्षमाणा 'एतद्वतं मम । अप्यहं जीवितं जह्याम्' इत्येवं रामव्यवसायं जानन्तीत्यर्थः । लक्ष्मणस्य च धीमतः रामे मायामृगानुसारिण्यपि मारीचोऽयमिति तदानीमपि निश्चितवतो लक्ष्मणस्य । यद्वा सर्वेश्वरादप्याश्रितसंरक्षणे समुद्युक्तस्य । नात्यर्थ क्षुभ्यते अत्यर्थमिति क्षोभाभावविशेषणम् , क्षोभविशेषणत्वे यत्किंचित्क्षोभ प्राप्तः स्यात् । सत्तानाशकाले प्राप्तेपि क्षोभलेशरहितेत्यर्थः । देवी रामेण शिरसा वोढव्यवाल्लभ्यवती । गङ्गेव जलदागमे, क्षोभहेतौ सत्यपि यथा गङ्गा न क्षुभ्यते । तथेत्यर्थः ॥ ४॥ तुल्येति । तुल्यशीलवयोवृत्ताम्, शीलं स्वभावः, “अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्" इति प्रक्रियया तुल्य
रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः। नात्यर्थ क्षुभ्यते देवी गङ्गेव जलदागमे ॥४॥ तुल्यशीलवयोवृत्ता तुल्याभिजनलक्षणाम् । राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा ॥५॥ तां दृष्ट्वा नवहेमाभा लोककान्तामिव श्रियम् । जगाम मनसा रामं वचनं चेदमब्रवीत् ॥६॥
अस्या हेतोविशालाक्ष्या हतो वाली महाबलः । रावणप्रतिमो वीर्ये कबन्धश्च निपातितः ॥ ७॥ स्वभावाम् । तुल्यवयस्काम पोडशवार्पिकस्य द्वादशवार्पिकी तुल्या अन्यथा वैरस्यापत्तेः शास्त्रविरोधाच्च। अत एव विष्णुः-"वक्रेकगुणां भामुदत त्रिगुणो वरः । द्वयष्टवर्पोऽष्टवी या वयोमानावरा च या ॥” इति । तुल्यवृत्ताम् "दोषो यद्यपि तस्य स्यात् सतामेतद्गर्हितम्" इति रामवृत्तम्, M"पापानां वा शुभानां वा वधार्हाणां तवंगम । कार्य करुणमार्येण न कश्चित्रापराध्यति ॥” इत्युक्तवत्यास्सीताया वृत्तेन तुल्यम् । तुल्यशब्दोऽनुरूप परः । रामानुरूपशीलवयश्चारिवामित्यर्थः । तुल्याभिजनलक्षणाम् अभिजनः कुलम्, लक्षणं सामुद्रिकं, सार्वभौमलक्षणवतो भार्याया येस्सामुद्रिकलक्षणे
व्यं तैयुक्तामित्यर्थः । एवंतिमत्वादाघवो वैदेहीमईति, वैदेही राघवमर्हति । लोके सौन्दर्यादिमतः सौन्दर्यादिसर्वसहिता न लभ्यते । सौन्दर्यादिमत्या Hन सौन्दर्यादिसर्ववान् । अनयोस्तु सर्व सम्पन्नमिति विस्मयते । असितेक्षणेत्यधिकविशेषणदानाद्रामापेक्षया सीताया नयनसौन्दर्यमधिकमित्युच्यते ।
अत एव रामो वक्ष्यति-“न जीवेयं क्षणमपि विना तामसितेक्षणाम्" इति ॥५॥६॥ अस्या हेतोरिति । “सर्वनामस्तृतीया च " इति षष्ठी। सकलजगद्रक्षकरामलक्ष्मणगुप्तायाः सीताया ईदृशं दुःखं प्राप्तं यतः अतः कालो दुरतिक्रम एवेत्यर्थः ॥३॥ व्यवसायज्ञा अभिप्रायज्ञा, पराक्रमज्ञेत्यर्थः ॥४॥ तुल्पशीलवयोवृत्ता रामानुरूपस्वभाववयश्चारित्रा । तुल्याभिजनलक्षणा अभिजनं कुलम्, लक्षणं सामुद्रिकोक्तम् ॥५॥६॥ अस्या हेतोः अनया हेतुनेत्यर्थः ॥७-१०॥
For Private And Personal