SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir टी.सं.को स०१६ एवं दृष्ट्वा मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्तां सीतां दृष्ट्वा हृष्टः सन् मनसा रामं जगाम सस्मार । तं प्रभु बुद्धिस्य धारामं प्रशशंस च पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् भाग्योत्तरो राम इत्यस्तोषीत् । यदा एतादृशसौन्दर्यवती सीतां दृष्ट्वा एतद्विरहितस्या महान् शोकः प्राप्तः अतः युक्तमेव कृतवान राम इत्यस्तोषीत् ॥५५॥ इति श्रीगोविन्द श्रीरामायण शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने पञ्चदशः सर्गः॥१५॥ प्रशस्य वित्यादि। प्रशस्तव्यां प्रशंसितव्याम् । राम सीतां च प्रशस्येति । अस्या देव्या इत्यादिनोभयोरपि प्रशंसितत्वात् ॥ 30 एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः । जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ ५५ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे पञ्चदशः सर्गः ॥ १५॥ प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुङ्गवः । गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत् ॥१॥ समुहूतेमिव ध्यात्वा बाष्पपर्याकुलेक्षणः। सीतामाश्रित्य तेजस्वी हनुमान विललाप ह ॥२॥ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया। यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः ॥३॥ स इति । सीतामाश्रित्य सीतां विषयीकृत्य ॥२॥ मान्यति । गुरुविनीतस्य गुरुभिः शिक्षितस्य । गुरुप्रिया रामप्रिया । कालो हि दुरतिकमः कालो दुरतिक्रम एवेत्ययमर्थः सिद्धो भवतीत्यर्थः । हिशब्दोऽवधारणे अव्ययानामनेकार्थत्वात् । जगद्रक्षकरामलक्ष्मणगुप्तायास्सीताया अपि यदीदृशं दुःखं । सालक्षणम् । सापितं विना जीवतीति चित्रमेवेत्यर्थः ॥५३॥ ५४॥ एवं मलिनसंवीतत्वोपवासकृशत्वशोकध्यानपरायणत्वादिपतिव्रताधर्मयुक्ता सीता दृष्ट इष्टस्सन मनसा राम जगाम सस्मार । तं प्रभु बुद्धिस्थं रामं प्रशशंस च । पुनःप्राप्त्युपयुक्तपतिव्रताधर्मनिष्ठत्वदर्शनात् माग्योत्तरो राम इत्यस्तोषीदिति भावः॥ ५५ ॥ इति श्रीमहेश्वरतीर्यविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो सुन्दरकाण्डव्याख्यायां पञ्चदशः सर्गः॥१५॥ प्रशस्येति । प्रशस्तव्यां प्रशंसितव्याम् । ७१॥ स इति । सीतामाश्रित्य सीतामुद्दिश्य ॥२॥ गुरुविनीतस्य गुरुमिः शिक्षितस्य । गुरुप्रिया रामप्रिया । सीतापि यदि दुखार्ता, कालो दुरतिक्रमो हि | स०-गुरुविनीतस्य नवस्य लक्ष्मणस्य गुरुप्रिया ज्येष्ठमातृभार्या मान्या । यहा गुरुविनीतस्य ब्रह्मादेर्लक्ष्मणस्य चेति व्यधिकरणषष्ठयो । सर्वमान्या पदि सीता दुःखार्ता सेवाभूत । हि यतः ततः कालो दि दुरतिकमः । देव्या देवेन च स्वसमयावनाय कालो दुरतिक्रमः अनुलच्यस्वपराक्रम इव दर्शित इति भावः । यद्वा मुखापि यदुःखावदात्मानं दर्शयामास स हि ततः कालः रावणमृत्युः दुरतिक्रमः मनुलाचयः रावणेनेति शेषः ॥ ३ ॥ महि ॥५६॥ For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy