________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsun Gyarmandir
www.kobatith.org
पायथा यथाविधम्, तथाविधमेव रामस्यापि रूपम् अङ्गप्रत्यङ्गसौष्ठवं च । तया रामस्य रूपमङ्गप्रत्यङ्गसौष्ठवं च यथा यथाविधम्, तथाविधमेवास्या
रूपमङ्गप्रत्यङ्गसौष्ठवं च । अतः इयमसितेक्षणा तस्य योग्येति शेपः॥५१॥ तथाऽनयोरन्योन्यस्यानुरागमाह-अस्या इति । अस्या देव्याः मनस्तस्मिन् । रामे प्रतिष्ठितम्, तेन हेतुना इयं मुहूर्तमपि जीवति । तस्य च मनोऽस्यां प्रतिष्टितम्, तेन कारणेन स मुहूर्तमपि जीवति । तयोरन्योन्यं मनोनिवेशना॥ भावे मुहूर्तजीवनमपि न घटत इति भावः ॥५२॥ माल्यवति शैले रामस्य सीताविरहक्लेशातिशयं निशाम्य हन्त वसिष्ठशिष्यः कस्याश्चित् स्त्रियाः कृते
अस्या देव्या मनस्तस्मिस्तस्य चास्यां प्रतिष्टितम् । तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥५२॥ दुष्कर कृतवान् रामो हीनो यदनया प्रभुः । धारयत्यात्मनो देहं न शोकेनावसीदति ॥५३ ॥ दुष्करं कुरुते रामो य इमा
मत्तकाशिनीम् । सीतां विना महाबाहुर्मुहुर्तमपि जीवति ॥५४॥ कथमेवमभूदिति विनिन्द्य परिहसितवान् स्वयं विरक्ततया, संप्रत्यस्या बैलझण्यातिशयदर्शनेन विशेषज्ञतया एतद्विरदे रामस्य देहधारणं सर्वात्मना 21 अशक्यमित्याह-दुष्करमिति । दुष्करं कृतवान रामः । इमां वियुज्य समाधानपरी रामः प्रकाममशक्यं कृत्यमकरोत् । हीनो यदनया प्रभुः। अनया लिना देहं धृत्वाऽवस्थित इति यत्तदत्यन्तमशक्यम् । प्रभुः गजाश्वादिकं शिक्षयितुंराज्यं पाउपितुंच जानाति।न प्रणयधारायां प्रथमांशमपि भुक्तवान् । धारयत्पात्मनो देहम् । किमिदं याचितकं शरीरं धारयति स्वस्यैव हि देहोऽयं देह भोगायतनं हीदं न दुःखायतनम् “दिह उपचपे” इत्यस्मादातोः "इगुपध." इत्यादिना कः । तेनायमर्थो लभ्यते । सीताशरीरस्य परतन्त्रतया तत्त्यक्तुमयुक्तं नतु स्वाधीनशरीरस्य धारणं युक्तमिति भावः। विशेपज्ञेनापि कथमिदं त्यक्तुं शक्यम् । तत्राह न शोकेनावसीदति ॥५३॥ उक्तमथे किञ्चिदिशेपान्तरेण दर्शयति-दुष्करं कुरुत इति ॥५४॥
प्रत्यङ्गसौष्ठवं तथाविधमेव रामस्यापि रूपं रामस्य यथाविधं रूपं तथाविधमेत्र अस्या रूपम् । अत एवेयमसितेक्षणा तस्य योग्येति शेषः ॥५१॥ अथानयो रन्योन्यानुरागमाह-अस्या इति । अस्याः सीतायाः मनः तस्मिन् रामे प्रतिष्ठितम् । नेन हेतुना इयं सच जीवनीति सम्बन्धः ॥ ५२ ॥ सीताविरहेण रामस्य । शरीराकाथ प्राणधारणं च विचित्रमित्याह-दुष्करमित्यादिश्लोकदयेन । मत्तकाशिनी वरारोहाम् “वरारोहा मत्तकाशिनी" इत्यमरः। रामग्रहणं सीताया अप्युप
For Private And Personal