________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
स०१
कर्ता ॥ १२ ॥ तेनेति । पुष्पौधेणेत्यत्र "कुमति च" इति गत्वम् । पुष्पमयो यथा पुष्पमय इव ॥ १३ ॥ पीब्यमान इति । रीतीः रेखाः काञ्चनाअनरजतगर्भासुटी .सु.का. पशिलासु विदीर्यमाणासु दृश्यमानास्तास्ता भेदधारा इत्यर्थः ॥ १५ ॥ मुमोचेति । समनःशिलाः धातुविशेषसहिताः । मध्यमेनार्चिपा मध्यमया
पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः । रीतीनिवर्तयामास काञ्चनाञ्जनराजतीः ॥ १५ ॥ मुमोच च शिलारशैलो विशालास्समनश्शिलाः । मध्यमेनार्चिषा जुष्टो धूमराजीरिवानलः ॥ १६॥ गिरिणा पीड्यमानेन पीड्यमानानि सर्वतः । गुहाविष्टानि भूतानि विनेदुर्विकृतैस्स्वरैः ॥ १७॥ स महासत्त्वसन्नादशैलपीडा निमित्तजः। पृथिवीं पूरयामास दिशश्चोपवनानि च ॥१८॥ शिरोभिः पृथुभिस्सा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरंददंशुर्दशनैश्शिलाः॥ १९॥ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः। जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा॥२०॥ यानिचौषधजालानि तस्मिन् जातानि पर्वते । विषनान्यपि नागानां न शकुश्शमितुं विषम् ॥२१॥ भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः ॥२२॥ त्रस्ता विद्याधरास्तस्मादुत्पेतुःस्त्रीगणैस्सह। पानभूमिगतं हित्वा
हैममासवभाजनम् । पात्राणि च महार्हाणि करकांश्च हिरण्मयान् ॥ २३ ॥ ज्यालया, पार्थज्वाला हि न धूमनिवर्तिका ॥ १६॥ गिरिणेति । विकृतैः विकृतिमद्भिः, दैन्यव्याकरित्यर्थः ॥ १७॥ स इति । सत्त्वसन्नादः भूतसन्नादः ॥ १८॥ शिरोभिरिति । स्वस्तिकं नाम फणोपरि दृश्यमानार्धचन्द्रकम् । ददंशुरिति । दंशनं कोपव्यापारः ॥ १९॥ ता इति । बिभिदुः भिन्नाः॥२०॥ यानीति । अत्र तानीत्यध्याहार्यम् । शमितुं शमयितुम् ॥ २१॥ भिद्यत इत्यर्धमेकम् । उत्पेतुरित्यनुपज्यते ॥ २२ ॥ त्रस्ता इत्यादिसार्घश्लोकद्वय महेन्द्रः काञ्चनाजनराजतीः कामनाञ्जनरजतमयी। रीती: पद्धती, धारा इत्यर्थः । निर्वर्तयामास प्रादुर्भावयामासेत्यर्थः ॥ १५ ॥ समनश्शिलाः धातुविशेष सहिताः । मध्यमेनार्चिषा जुष्टः, कालीकरालीविष्फुलिङ्गिनीधूम्रवर्णाविश्वरुचिलोहितामनोजवाभिधानासु सप्तस्वग्निजितासु मध्यमया धूम्राख्यया विशिष्टः अग्निः धूमराजीरिव धूमनिचयानिव शैलपर्वतः शिला मुमोचेति सम्बन्धः ॥ १६॥१७॥ स इति । महासत्वाः महाजन्तवः तेषां सन्नादः॥ १८ ॥ शिरोभिरूप लक्षिताः । स्वस्तिकः फणस्थो नीलरेखाविशेषः ॥ १९ ॥२०॥ यानीति । शमितुं शमयितुम् ॥२१॥ भूतैः पृथिव्यादिभिस्सह ॥ २२॥ २३ ॥
For Private And Personal