________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailashsagarsun Gyarmandie
चा.रा.भ.
॥५॥
न राजन्तीम् । तां प्रसिद्धाम् ॥ ३१ ॥ स्मृति मन्वाद्यक्तिम् । सन्दिग्धां सन्दिग्धार्थाम् । ऋद्धिं सम्पदम् । निपतितां क्षीणाम् ॥ ३२॥ालाको विहताम् अविश्वासबहुलाम् । प्रतिहताम् अलब्धकार्याम् । सोपसर्मा सविनाम् । सकलुषां सकालुष्याम् । भावप्रधानो निर्देशः ॥ ३३ ॥ अभूतेन ।
स०१५ संसक्तां धूमजालेन शिखामिव विभावसोः। तां स्मृतीमिव सन्दिग्धामृद्धिं निपतितामिव ॥ ३२॥ विहतामिव च श्रद्धामाशां प्रतिहतामिव । सोपसर्गी यथा सिद्धिं बुद्धिं सकलुषामिव ॥ ३३ ॥ अभूतेनापवादेन कीर्ति निपतिता भिव । रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ॥ ३४ ॥ अवलां मृगशावाक्षीं वीक्षमागां ततस्ततः । बाप्पाम्बु परिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ॥३५॥ वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः॥ ३६॥ मलपङ्कधरां दीनां मण्ड नामिमाण्डिताम् । प्रभा नक्षत्रराजस्य कालमेघेरिवावृताम् ॥ ३७॥ तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु। आन्नायानामयोगेन विद्या प्रशिथिलामिव ॥ ३८ ॥ दुःखेन बुबुधे सीतां हनुमाननलंकृताम् । संस्कारेण यथा
हीनां वाचमर्थान्तरं गताम् ॥ ३९॥ असत्येन । रामोपरोधव्यथितां रामपातिनिरोधेन व्यथिताम् ॥३४-३७॥ पुनः सीताशब्दो व्यवहितानुस्मरणार्थः । आनायानां वेदानाम् । अयोगेन
असम्बन्धेन । प्रशिथिलाम् अप्रातप्रतिष्ठाम् । विद्यां वेदबाह्यविद्याम् । यदा आनायानाम् अभ्यासानामभावेन प्रशिथिलाम् अस्थिरपदा विद्यामिव Mसीतां निरीक्ष्य तस्य हनुमतो बुद्धिः सन्दिदिहे इत्यन्वयः । कार्यमालिन्यादिना तिरोहितरूपत्वादिति भावः ॥ ३८॥ दुःखेनेति । संस्कारः शब्द। व्युत्पत्तिः तेन हीनाम् अत एव विवक्षितादर्थान्तरं गतां विपरीतार्थामित्यर्थः । संस्कारहीनतया प्रतिपिपादयिपितार्थ वक्तुमशक्नुवन्तीमविवक्षितमर्थन शिवामिव विभावसोरिति पातिव्रत्यम् । तां प्रसिद्राम् । स्मृतिः मन्वादिवाक्यम् । दीर्घस्त्वार्षः । सन्दिग्धों सन्दिग्धार्थाम् ॥ ३२ ॥ सोपसर्गा सान्तरायाम । सकलुषां सकपटाम् ॥ ३३॥ अभूतेनापवादेन मिथ्यापवादेन । रामोपरोधण्यथिता रामप्राप्तिनिरोधेन व्यथिताम् ॥ ३४-३७ ॥ तस्य हनमतः बुद्धिः सन्दिदिहे ॥५४॥ कार्यमालिन्यादिना तिरोहितत्वादिति भावः । आम्नायानामयोगेन अभ्यासानामभावेन ॥३८॥ दुःखेनेति । दुःखेन कृच्छ्रेण । संस्कारेण यथा हीना MI स-रामोपरोधव्ययितां रामाभिः राक्षसस्त्रीमिः य उपरोधः इतस्ततोगमन प्रतिबन्धस्तेन व्यथिताम् ॥ ३५ ॥
For Private And Personal