________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
प्रदर्शनाय । अत्र उपवासकृशां कृशामनशनेनेत्युक्त्या पूर्वकाण्डान्ते इन्द्रदत्तपायसाशनवृत्तान्तः कल्पित इति तत्रैवोक्तम् ॥२२॥ २३ ॥ नीलनागा भया कृष्णसर्पतुल्यया ॥२४॥ नीरदापाये शरदि ॥ २५ ॥ उपपादिभिः उपपादनशीलेः । मन्दं प्रख्यायमानेनेत्यारभ्य सीतां समीक्ष्य उपपा दिभिः कारणैस्सीतेति तर्कयामासेत्यन्वयः ॥ २६ ॥ एवं लिङ्गे सीतेति विचार्य प्रत्यभिज्ञयापि तथा तर्कयामासेत्याह-ह्रियमाणेति । इति तर्कया
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् । प्रियं जनमपश्यन्तीं पश्यन्ती राक्षसीगणम् ॥ २३ ॥ स्वगणेन मृगी हीनां श्वगणाभिवृतामिव । नीलनागाभया वेण्या जघनं गतयैकया ॥ २४ ॥ नीलया नीरदापाये वन राज्या महीमिव । सुखाही दुःखसंतप्ता व्यसनानामकोविदाम् ॥ २५ ॥ तां समीक्ष्य विशालाक्षीमधिकं मलिना कृशाम् । तर्कयामास सीतेति कारणैरुपपादिभिः॥२६॥ ह्रियमाणा तदा तेन रक्षसा कामरूपिणा । यथारूपा हि दृष्टा वै तथारूपेयमङ्गना ॥ २७ ॥ पूर्णचन्द्राननां सुबूं चारुवृत्तपयोधराम । कुर्वन्तीं प्रभया देवी सर्वा वितिमिरा दिशः ॥२८॥ तां नीलकेशी बिम्बोष्ठी सुमध्यां सुप्रतिष्ठिताम् । सीतां पद्मपलाशाक्षी मन्मथस्य रतिं यथा ॥ २९ ॥ इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव । भूमौ सुतनुमासीनां नियतामिव तापसीम् ॥ ३०॥ निश्वासबहुला भीरुभुजगेन्द्रवधूमिव । शोकजालेन महता विततेन न राजतीम् ॥३१॥ मासेति शेषः॥ २७॥ पूर्णचन्द्राननामित्यारभ्य विद्यां प्रशिथिलामिवेत्यन्तमेकं वाक्यम् । सुनूं सुध्रुवम् । उबङभाव आपः। कुर्वन्तीमिति । दशमासान् सानेन विना मलिनापि प्रभया दिशः वितिमिराः कुर्वन्तीमिति प्रभातिशयोक्तिः॥२८॥ सुप्रतिष्ठितां सुप्रतिष्ठितपादतलाम् ॥२९॥ ३० ॥ न राजती नीलनागाभया कृष्णसर्पतुल्यया । वनराज्या उपलक्षितां महीमिव स्थिताम् ॥ २४ ॥ २५ ॥ तामिति । तो पूर्वोक्तविशेषणविशिष्टाम् । उपपादिभिः उपपादन शीलेर्वक्ष्यमाणलिङ्गे सीतेति तर्कयामास, संशयितवानित्यर्थः ॥ २६ ॥ कारणान्येवाह-द्वियमाणेति । अतः सीतेयमिति तर्कयामासेति पूर्वेण सम्बन्धः ॥ २७ ॥ पूर्णचन्द्रेत्यादि । सुधू सुनुवम् ॥२८॥ २९ ॥ चन्द्रप्रभामिवेति सर्वानन्दकरत्वमुक्तम् ॥ ३० ॥ भुजगेन्द्रवधूमिवेति दुष्प्रधर्षत्वम् ॥ ३१॥
For Private And Personal