________________
Shri Mahavir Jain Aradhana Kendra
श.रा.भू. ॥५३॥
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
साधारणधर्ममाह पुष्पेति । एवं सागरौपम्ये पुष्परत्नेति ॥ ११-१४ ॥ अशोकवनिकायामित्यादि । चैत्यप्रासादं चैत्यं बुद्धमन्दिरं तदाकारं प्रासादम् ॥ १५ ॥ १६ ॥ प्रांशुभावत्वात् दीर्घस्वभावत्वात् ॥ १७ ॥ मलिनसंवीतां मलिनवस्त्रेणावृताम्, मलिनैरङ्गैः संवीतां वा ॥ १८ ॥ अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् । शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् ॥ १४ ॥ अशोकवनिकार्यां तु तस्यां वानरपुङ्गवः । स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ॥ १५ ॥ मध्ये स्तम्भसहस्रेण स्थितं कैलास पाण्डुरम् । प्रवालकृत सोपानं तप्तकाञ्चनवेदिकम् ॥ १६ ॥ मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया । विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् ॥ १७ ॥ ततो मलिनसंवीतां राक्षसीभिः समावृताम् । उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ॥ १८ ॥ ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् । मन्दं प्रख्यायमानेन रूपेण रुचिरप्रभाम ॥ १९ ॥ पिनां घूमजालेन शिखामिव विभावसोः । पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ॥ २० ॥ सपङ्कामनल ङ्कारा विपद्ममिव पद्मिनीम् । व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ॥ २१ ॥ ग्रहेणाङ्गारकेणेव पीडिता मिव रोहिणीम् । अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ॥ २२ ॥
शुक्लपक्षादावित्यनेन वर्धिष्णुत्वं द्योतितम् । मन्दं प्रख्यायमानेन इदं तदिति कथञ्चित्प्रत्यभिज्ञायमानेन रूपेणोपलक्षिताम् ॥ १९ ॥ पिनद्धामिति मलिनसंवीतत्वे उपमा । पिनद्धां बद्धाम् । उत्तरीयराहित्यं द्योतयितुमेकेनेत्युक्तिः ॥ २० ॥ सपङ्कां भूमेराविर्भवन्तीमिव स्थिताम् । अनलङ्कारां पङ्कं निवर्त्य अलङ्कुर्वतोsसन्निधानादलङ्काररहिताम् । रामागमनेऽप्ययमाश्रयो नोत्सादयितुमईतीत्येवं मन्यमानाम् । विपद्यामिव पद्मिनी पद्मरहितां सरसीमिव स्थिताम् ॥ २१ ॥ ग्रहेण क्रूरग्रहेण । द्वितीय इवशब्दो वाक्यालङ्कारे । अविति । कृशां दीनामिति पुनःपुनरुक्तिः कार्यदैन्ययोरतिशय पुष्पज्योतिर्गणायुतम् पुष्पाण्येव ज्योतिर्गणा नक्षत्रगणाः । उद्यानम् अशोकवनम् अपश्यदिति शेषः ।। ११-१४।। अशोकवनिकायामित्यादि श्लोकत्रयमेकं वाक्यम् चैत्यप्रासादं बुद्धाण्डाकारप्रासादम् प्रशुिभावत्वात् उन्नतस्वरूपत्वात् ॥ १५-१७॥ तत इत्यारभ्य दुःखसन्तप्तां व्यसनानामकोविदाम् इत्यन्तस्य ग्रन्थस्य ददर्शेति क्रियया सम्बन्धः । मलिनसंवीतां मलिनवस्त्रोपेताम् || १८ || मन्दं मरूयायमानेन इदं तदिति कथचिदूह्यमानेन रूपेणोपलक्षिताम् ॥ १९॥ क्लिष्टेन जीर्णेन ॥ २०-२३॥
For Private And Personal
टी. सुं.क.
स० [१५
॥५३॥