SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir विहगैः निष्पत्रशाखां क्रियमाणामिव स्थिताम् । युगपत्पातिपक्षिपक्षविहतपत्रतया पत्ररहितशाखामिव स्थितामित्यर्थः ॥६॥ पुष्पावतंसकैः चञ्चु पुटलमपुष्पालंकृतरित्यर्थः । आमूलेति । आमूलं पुष्पैर्निचितैः व्याप्तैः । पुन्नागादौ तथा दृष्टम् ॥ ७॥ पुष्पभारः पुष्पसमूहः स एवातिभारो प्रदीप्तामिव तत्रस्थो मारुतिःसमुदक्षत । निष्पनशाखां विहगैः क्रियमाणामिवासकृत् ॥६॥ विनिष्पतद्भिः शतश श्चित्रैः पुष्पावतंसकैः। आमूलपुष्पनिचितैरशोकैः शोकनाशनः ॥७॥ पुष्पभारातिभारैश्च स्टशद्भिरिव मेदि नीम् । कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ ८॥ स देशः प्रभया तेषां प्रदीप्त इव सर्वतः । पुन्नागाः सप्त पर्णाश्च चम्पकोदालकास्तथा ॥९॥ विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः । शातकुम्भनिभाः केचित् केचि दग्निशिखोपमाः। नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः॥१०॥ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा । अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रियावृतम् ॥ ११॥ द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् । पुष्परत्नशतै श्चित्रं पञ्चमं सागरं यथा॥१२॥ सर्वर्तुपुष्पैनिचितं पादपैर्मधुगन्धिभिः। नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः॥१३॥ येषां तैः। अशोकैरित्यादावुपलक्षणे तृतीया । अशोकादिभिरुपलक्षिता समुदेक्षतेति पूर्वेणान्वयः ॥ ८-१० ॥ पुनरशोकवनं विविधोपमानदर्शनेन वर्णयति-नन्दनमित्यादिना श्योकचतुष्टयेन । उद्यानम् अशोकवनम् । अत्र ददर्शेत्यपकृष्यते । नन्दनम् इन्द्रकीडावनम् । विविधोद्यानं विविधवृक्षपण्डम् । चैत्ररथं कुबेरक्रीडावनम् । नन्दनमतिवृत्तमिव अतिकम्य स्थितमिव । चैत्ररथं यथा चैत्ररथमिव चित्रमित्यन्वयः । आकाशसाम्ये मित्यर्थः ॥ ५॥६॥ पुष्पावतंसकैः पुष्पाण्यवतंसवत् प्रतीयमानानि येषां पक्षिणां तैः, युगपत्पातिबहुपक्षिपक्षपिहितपर्णतया पत्ररहितशाखामिव स्थितामित्यर्थः किश्च आमूलपुष्पनिचितैः मूलादारभ्य पुष्पपूर्णैः ॥७॥ पुष्पभारः पुष्पसमूहः । कुमितेः कर्णिकारादिमिरुपलक्षिताम् । अशोकवनिकामन्यवेक्षतेति पूर्वेणी ई सम्बन्धः॥८॥स इति । तेषां वृक्षाणाम् प्रदीप्त इव, स्थित इति शेषः । पुन्नागा इत्यादि श्लोकद्वयमेकं वाक्यम् ॥ ९॥१०॥ अथ पुनः प्रकारान्तरेणाशोकवनं । वर्णयति-नन्दनमित्यादिना। विविधोद्यानं नानाविधावान्तरवनं चित्रं यनन्दनम् इन्द्रोद्यानं, चैत्ररथं कुबेरोद्यानम्, तदुभयमतिवृत्तमतिकान्तमिव स्थितमित्यर्थः For Private And Personal
SR No.020794
Book TitleValmiki Ramayanam Part 04
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages365
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy