________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsun Gyanmandir
खा.रा.भू.
॥५२॥
पर्णघने पर्णसमूहे । महात्मा स हनुमान् । पुष्पिताग्रत्वादिविशिष्टां तामारुह्य इतो द्रक्ष्यामीत्यारभ्य आगमिष्यति साऽवश्यमिमां शिवजला नदी की मित्यन्तेन यः प्रकार उक्तः एवमुक्तप्रकारेण मत्वा मनुजेन्द्रपनी प्रतीक्षमाणः अवेक्षमाणः मार्गमाणः सुपुष्पिते पर्णघने निलीनश्च सन् सर्व ददरौं । त्यन्वयः ॥५२॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे शृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥
स०१५ एवं तु मत्वा हनुमान महात्मा प्रतीक्षमाणो मनुजेन्द्रपत्नीम् । अवेक्षमाणश्च ददर्श सर्व सुपुष्पिते पर्णघने निलीनः ॥५२॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे चतुर्दशः सर्गः ॥१४॥
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् । अवेक्षमाणश्च महीं सर्वा तामन्ववैक्षत ॥१॥ सन्तानकलताभिश्च पादपैरुपशोभिताम् । दिव्यगन्धरसोपेतां सर्वतः समलंकृताम् ॥२॥ तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् । हर्म्यप्रासादसंवा कोकिलाकुलनिस्वनाम् ॥ ३॥ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् । बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥४॥ सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः। पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥५॥
स वीक्षमाण इत्यादि । सः तत्रस्थः शिंशुपास्थः। मैथिली मार्गमाणः मैथिलीमार्गणारेतोः। “लक्षणहेतोः कियायाः" इति शान । वीक्षमाणः । विविधं चक्षुर्विक्षिपन् महीं चावेक्षमाणः सर्वा ताम् अशोकवनिकाम् अन्वक्षतेत्यन्वयः ॥ १-३॥ बह्वासनैः कुथैः आस्तरणैश्वोपेताम् । भूमि गृहाणि बिलगृहाणि ॥ ४॥ सर्वर्तुकुसुमैः पादपैः रम्यामित्यन्वयः । सूर्योदयप्रभाम् उद्यत्सूर्यप्रभाम् ॥५॥ एवमिति । पर्णघने पर्णसान्द्रे पूर्वोक्तशिशुपावृक्षे निलीनः, अभूदिति शेषः ॥५२॥ इति श्रीमहे श्रीरामायणतत्त्व सुन्दरकाण्डव्याख्यायां चतुर्दशः सर्गः ॥१४॥ 8 स वीक्षमाण इति । सः हनुमान् । तत्रस्थः शिशुपापर्णधनस्थः । शिशुपा तीक्ष्णधारः । मैथिली मार्गमाणः मैथिलीमार्गणारेतोः "लक्षणहेत्वोः क्रियायाः' इनि शानन् । वीक्षमाणः विविधं चक्षुर्विक्षिपन् । महीं चावेक्षमाणः महीं प्रत्यधोवीक्षणं कुर्वन् सर्वा तामशोकवनिकामन्यवक्षतत्यन्वयः ॥ १-३ ॥ बहासनकुयोपेता
|॥५२॥ बहासनैः कुथास्तरणैश्वोपेताम् । भूमिगृहाः भूबिलगृहाः ॥ ४॥ सर्वर्तुकुसुमैः सर्वर्तुषु कुसुमानि येषु तेः पादपैरुपलक्षिताम् । सूर्योदयमभाम् उद्मत्सूर्यप्रभाal
For Private And Personal