________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
सन्तानकाः कल्पवृक्षास्तैस्समावृताः। घनाः निबिडाः। नानागुल्मावृताश्च तापनाश्चेति समासः। करवीरकृतान्तराः करवीरैः कृतविशेषाः॥२६॥२७॥ जगति लोके रम्यम्, एतत्सदृशं रम्यं किंचिन्नास्तीत्यर्थः । पर्वतं ददशेत्यन्वयः ॥ २८ ॥ रामानु-शिलागदरिति । जगतिपर्वतं जगतीशब्दस्य
लताशतैरवतताः सन्तानकसमावृताः । नानागुल्मावृतघनाः करवीरकृतान्तराः ॥ २६॥ ततोऽम्बुधरसङ्काशं प्रवृद्धशिखरं गिरिम् । विचित्रकूट कूटैश्च सर्वतः परिवारितम् ॥ २७॥ शिलागृहैरवततं नानावृक्षैः समावृतम् । ददर्श हरिशार्दूलो रम्यं जगति पर्वतम् ॥ २८॥ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः। अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम् ॥ २९ ॥ जले निपतितायैश्च पादपैरुपशोभिताम् । वार्यमाणामिव क्रुद्धां प्रमर्दा प्रिय बन्धुभिः ॥३०॥ पुनरावृत्ततोयां च ददर्श स महाकपिः । प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम् ॥३३॥ तस्यादूरात्स पद्मिन्यो नानादिजगणायुताः । ददर्श हरिशार्दूलो हनुमान मारुतात्मजः॥ ३२ ॥ कृत्रिमा दीर्घिका
चापि पूर्णी शीतेन वारिणा । मणिप्रवरसोपाना मुक्तासिकतशोभिताम् ॥ ३३ ॥ हस्वभाव आर्षः । जगती भूमिः मृदिति यावत् । तत्प्राधान्याजगतिपर्वतमित्युक्तम् । यदा जगतिपर्वत इति संज्ञा ॥ २८॥ अथ नद्याः कुपितया निर्गतया सखीसान्त्वनेन पुनरागतया साम्यं दर्शयति-ददर्श चेति । पुनरावृत्ततोयाँ वृक्षाग्रप्रतिहत्या पुनः पर्वताभिमुखतोयप्रवाहाम् । उपमाने उपमेये चान्वयाय ददर्शति पदद्वयम् ॥२९-३१॥ तस्येति । तस्य पर्वतस्य । पद्मिन्यः पद्मिनीः ॥३२॥ कृत्रिमा क्रियया निर्वृत्ताम्, निर्मितामित्यर्थः॥३३-३५॥ उक्तविशेषणविशिष्टा वापीर्ददर्शति पूर्वेणान्वयः ॥ २२-२५॥ लताशतेरिति । सन्तानकुसुमावृताः कल्पवृक्षकुसुमावृताः । करवीरकृतान्तराः करवीरैः कृत विशेषाः ॥२६॥ गिरि क्रीडापर्वतम् । तस्य विशेषणं जगतिपर्वतमिति । हस्व आर्षः । जगती भूमिः, मुदिति यावत् । तस्माधान्याज्जगतिपर्वतमित्युक्तिः ॥ २७ ॥ २८ ॥ ददर्शति । निपतिता निर्गताम् । अस्या नद्याः कुपितकान्तासाम्यं सार्धश्लोकद्वयेनाह-अङ्कादिति । पतिता क्रोधान्निर्गताम् । जले निपतिताः
पादपैः भियवन्धुभिः वार्यमाणां कृता प्रमदामिव शोभिताम् अत एव कान्तस्प प्रसन्नामत एव पुनरुपस्थिता कान्तामिव पुनरावृत्ततोयो ददर्शति सम्बन्धः ॥८॥२९-३१॥ तस्येति । पद्मिन्यः पद्मिनीः ॥ ३२॥ कृत्रिमा दीर्घिकामित्यादिसार्घश्लोकदयस्प ददर्शति पूर्वकियया सम्बन्धः ॥३-३५॥
For Private And Personal