________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
|सुखसंवृद्धः, त्वयापि लालितत्वादत्यन्तसुखसंवृद्धः । सुकुमारः भवतोपि दृष्टयवेक्षणासहसौकुमार्यः । सुखोचितः त्वया सह वस्तुं योग्यः नतु त्वद्वियो । गाईः। कथं नु आत्मौपम्येन मन्यते स्वस्य रामविरहाभावेन शैत्यानुभवः तस्य रामतापात् 'उपततोदका नद्यः' इत्युक्तरीत्या नदीनामपि रामविर हेणोष्णत्वाच शैत्यप्रसक्तिरेव नास्ति । अपररात्रेषु यथा नववैधव्याः स्त्रियः मनुष्यसञ्चारात् पूर्वमेव मनुष्यमुखमनवलोकयन्त्यो गच्छन्ति तथायमपि पद्मपत्वेक्षणो वीरः श्यामो निरुदरो महान् । धर्मज्ञः सत्यवादीच हीनिषेधो जितेन्द्रियः॥३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुररिन्दमः । सन्त्यज्य विविधान् भोगानार्य सर्वात्मना श्रितः ॥ ३२ ॥ जितः स्वर्गस्तव भ्रात्रा भर तेन महात्मना । वनस्थमपि तापस्ये यस्त्वामनुविधीयते ॥ ३३ ॥ न पित्र्यमनुवर्तन्ते मातृकं द्विपदा इति । ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः॥ ३१॥ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः । कथं नु साम्बा
कैकेयी तादृशी क्रूरशीलिनी॥ ३५॥ कैकेयीपुत्रोऽयम् एतन्निमित्त एवानर्थ इति जना वक्ष्यन्तीति भीत्या अपररावेष्वेव गच्छति । सरयूमवगाहते निर्वेदातिशयेनातित्वरितगामिनीमपि सरयूं निर्भयोऽवगाइते । अवगाहते जले निमनश्चेन्मनुष्यादातव्यो भवति ॥३०॥ निरुदरः अतुन्दिलः । ह्रीनिषेधः हिया लजया निषेधः अकृत्येभ्यो निवर्तनं । यस्य सः। मधुरः मधुरवाक सुन्दरो वा । आर्य ज्येष्ठं त्वाम् सर्वात्मना करणत्रयेण श्रितः॥ ३१ ॥ ३२ ॥ स्वर्गः रामप्राप्त्यन्तरायभूतः स्वर्गः जितः तिरस्कृतः। वनस्थमपि त्वां तापस्ये तापसकर्मविषये अनुविधीयते अनुकरोति । श्यन्नार्षः ॥ ३३॥ एवं प्रतिज्ञातराक्षसवधे विलम्बः कृतः, भरत
शेन तत्रापि शीघ्रं गन्तव्यम् । अतः किमत्र कृत्यमिति सूचयित्वा सर्वस्यानर्यस्य मूलभूता कैकेयीत्याशयेनाह-न पित्र्यमित्यादिश्लोकदयेन । पित्र्यं शकलीकृतैः पर्णैः पत्रैः पुष्पदलैचोपलक्षितैः, परिति शेषः । न भान्तीत्यन्वयः ॥ (जराजर्झरितैः पर्णैः इति पाठः)॥२६-३०॥ निरुदरतनूदरः। हीनिषेधः द्विया निषिद्धकर्मजुगुप्सोत्पादकतया परनारीविषये निषेधश्चक्षुरादीन्द्रियनिवर्तनं यस्य सः। तत्र हेतुः जितेन्द्रियः। मधुरः सुन्दरः।आर्य ज्येष्ठं त्वाम् । वस्तुतस्तु-विविधान भोगान् सन्त्यज्य सर्वात्मना अक्षणादिरूपनवविधमक्या आर्थ ब्रह्मादीनामपि पूज्यं त्वामेवाश्रितः॥ ३१ ॥ ३२ ॥ स्वगोंजिता सम्पादितः। वस्तुतस्तु तिरस्कृतः स्वर्गस्य त्वद्भक्तेरन्तरायरूपत्वादितिभावः । अत एव बनस्थमपि त्वा तापस्ये तापसकृत्ये स्थित्वा अनुविधीयते अनुकरोनि सेवत इत्यर्थः ॥३३॥ पित्र्यं पितस्वमा वम् । द्विपदा मनुष्याः नानुवर्तन्ते अपितु मातक मातृस्वभावमनुवर्तन्त इति रूपातः प्रसिद्धोऽयं लोकमवादः भरतेनान्यथाकृतः, मातृकृतस्यानयस्य परिहारादिति
For Private And Personal Use Only