________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू.
॥ ४६ ॥
www.kobatirth.org
पितृस्वभावम् । द्वे पदे येषां ते द्विपदाः मनुष्याः । अन्यथाकृतः पितृस्वभाव एवानुकृतो न मातृस्वभाव इत्यर्थः । भर्तेति साधुशब्दस्य भर्तरि भरते चान्वयः । तादृशीति पूर्व कैकेय्युक्तस्मरणम् ॥ ३४ ॥ ३५ ॥ इत्येवमिति अनेन लक्ष्मणः प्रत्यूषे रामस्य ससीतस्य सरःखानादिक्केशमालोक्य सुदुः खिततया कैकेयीं निन्दितुमुपक्रम्य झटिति निन्दायां क्रियमाणायां रामः कुप्येदिति प्रथमं हेमन्तस्वभावं प्रस्तुत्य तत्प्रसङ्गेन भरतमुपक्षिप्य कैकेयीं
इत्येवं लक्ष्मणे वाक्यं स्नेहाद ब्रुवति धार्मिके । परिवादं जनन्यास्तमसहन राघवोऽब्रवीत् ॥ ३६ ॥
न तेम्बा मध्यमा तात गर्हितव्या कथञ्चन । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३७ ॥ निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता । भरतस्नेहसन्तप्ता वालिशीक्रियते पुनः ॥ ३८ ॥ संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च । हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥ ३९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निन्दति स्मेति गम्यते । स्नेहात् रामस्नेहात् । परिवादम् अपवादम् । असहन् असहमानः ॥ ३६ ॥ मध्यमा सर्वदशरथपत्यपेक्षया । कथंचन प्रासङ्गिक कथायामपि मध्यमाम्बेति स्वाभिमानद्योतनाय । इक्ष्वाकुनाथस्य राजनि स्वर्गे गते अस्मासु च वनं गतेषु पूर्वतरास्मत्कुलमर्यादास्थापकस्य ॥ ३७ ॥ तनि० - तामेव ' तस्मिन् पुरुषव्याघ्र ' इत्याद्युक्काम् । इक्ष्वाकुनाथस्य " आस्फोटयन्ति पितरः " इत्यादिना इक्ष्वाकुभिः प्रार्थनीयस्य भरतस्य । पद्मरत्रेक्षण इत्यायुक्त सद्गुणभरितस्य ॥ ३७ ॥ वनवासे निश्चिता दृढव्रतापि मे बुद्धिः भरते खेहसन्तता सति बालिशीक्रियते बालबुद्धिरिव भवति, असम्पूर्णेपि वनवासकाले तद र्शने सञ्जतकुतूहला भवतीत्यर्थः ॥ ३८ ॥ स्नेहमेव प्रकाशयति-संस्मरामीत्यादिना । लोके कैश्विदुक्तानि वाक्यानि प्रियाण्यपि कर्णकठोराणि भव अन्तीति तद्व्युदासायाह मधुराणीति । हृद्यानि हृदयादनपेतानि । अमृतकल्पानि शुभोदर्काणि । इदानीमपि मनःप्रह्लादनानि ॥ ३९ ॥ तनि० - वाक्यानि अर्थ परिपूर्णानि । प्रियाणि श्रवणप्रियाणि । मधुराणि “माधुर्ये सुकुमारता" इत्याद्युकगुणवन्ति । एवं शब्दधर्मानुक्त्वा अर्थधर्मानाह हृद्यानीति । हृयानि हृदपाह्लादजननानि । भावः ॥ ३४ ॥ ३५ ॥ इतीति । स्नेहात् भरतविषयस्नेहात् ॥ ३६ ॥ कौसल्या सुमित्राव्यतिरिक्तमात्रभिप्रायेण कैकेयी मध्यमेत्युच्यते । अमध्यमेति वा छेदः । तामेव पूर्वोक्तामेव कुरु कथय ॥ ३७ ॥ वनवासे निश्चिता निश्चयवती । दृढव्रता मे बुद्धिः भरतो हसन्तप्ता सती बालिशीक्रियते । भरतस्य सुगुणाश्रयस्य विश्लेषमसहमाना सती चाञ्चल्यं प्राप्नोतीति भावः ॥ ३८ ॥ कैश्चिदुच्यमानानि प्रियाण्यपि वाक्यानि कर्णकठोराणि भवन्ति तत्रिरासायोक्तं मधुराणि । हद्यानि
For Private And Personal Use Only
टी.आ.कां.
स० [१६
॥ ४६ ॥