________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
IN
वा.रा.भू.
हिमं तदेव तमः तेनावृताः। अनेन प्रच्छादनपटाच्छन्नत्वं व्यज्यते । विपुष्पा इत्यनेन निमीलिताक्षत्वमुक्तम् । अनेन वनवासिनां दैन्यातिशय उक्तःटी .आ.का. अत्रोत्प्रेक्षालङ्कारः॥२३॥ रुतं शब्दः । हिमाईवालुकैः हिमसिक्तसिकतेः, अनेनापि ऋषिजनदैन्यमेव द्योत्यते ॥ २४ ॥ तुषारः हिमम् । अगाग्रस्थ
स०१६ मपि निर्मलशिलातलस्थमपि । रसवत् विषवत् “ रसो रागे विषे द्रव्ये शृङ्गारादौ पराक्रमे " इति बाणः। शैत्यातिशयेन विषवदनुपादेयं भवतीत्यर्थः।।
बाप्पसञ्छन्त्रसलिला रुतविज्ञेयसारसाः । हिमाईवालुकैस्तीरैः सरितो भान्ति साम्प्रतम् ॥२४॥ तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च । शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २५ ॥जराजर्झरितैः पद्मः शीर्णकेसरकर्णिकैः । नालशेषैर्हिमध्वस्तैर्न भान्ति कमलाकराः॥२६॥ अस्मिस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः। तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे ॥ २७ ॥ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून् । तपस्वी नियताहारः शेते शीते महीतले ॥२८॥ सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः । वृतःप्रकृतिभिर्नित्यं प्रयाति सरयूनदीम्
॥२९॥ अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः । कथं न्वपररात्रेषु सरयूमवगाहते ॥३०॥ एतेन राक्षसप्रकोपात् भवतश्चानुद्योगान्मुनिमनो दुःखितं भवतीति द्योत्यते ॥ २५॥ जरया चिरपरूढतया जझरितैः विवर्णैः । शीर्णकेसरकर्णिकेः
शिथिलकिजल्ककर्णिकैः पद्मन भान्ति । स्पष्टं व्यङ्गम् ॥२६॥ एवमृषिपीडातिशयेपि रामस्य राक्षसवधानुद्यममुक्त्वा भरतस्य त्वदागमनव्यसनित्वा पत्तद्दशनकालोपि सन्निहित इत्याशयेनाह-अस्मिन्नित्यादिना । दुःखसमन्वितः त्वद्विरहादिति शेषः ॥ २७ ॥राज्यं राजत्वं प्रभुत्वमित्यर्थः।मानं राज
पुत्रोहमित्यभिमानम् । भोगान् स्रक्चन्दनवनितादीन् । बहूनित्यपरित्याज्यत्वमुच्यते । तपस्वी तपस्विचिह्नजटादिमान् । नियताहारः फलमूलाधशनः। शीत इत्यनेनावरणराहित्यमुच्यते । महीतल इत्यनेन खट्दादिराहित्यम् ॥२८॥ सोपीति । वेलां प्राप्येति शेषः । प्रकृतिभिरिति उपभोक्तुं व्यवस्यन्ति । "पोरा वै धर्मवत्सलम्" इति वक्ष्यमाणरीत्या भरतभक्त्या त्वद्भक्त्या च भरतमनुसरन्तीभिरित्यर्थः॥२९॥ अत्यन्तसुखसंवृद्धः राज्ञा उपलालितत्वात् ॥४५॥ तत्राभ्यन्तरेण निद्रातमसा सङ्कुचिताः बाह्येन निशातमसा सञ्छन्नाः स्वपन्ति । वनराजयश्च स्वेषु पतितावश्यायतमस्सङ्कचितपल्लवा उपरिपतितनीहारतमसा सध्छन्नाः प्रसुप्ता इव लक्ष्यन्त ॥२॥२४॥ अगाधस्थमपि गम्भीरस्थमपि । अगाग्रस्थमिति पाठे-पर्वताप्रस्थमपीत्यर्थः। रसवत् रुचिकरम् ॥ २५॥ जरया जझरिते
For Private And Personal Use Only