SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir वा.रा.म. तुपारेः हिमशीकरैः अरुणं रक्तं मण्डलं यस्य । हिमशीकरावरणेन चन्द्रसूर्यमण्डलयोरारुण्यं प्रत्यक्षसिद्धम् । निःश्वासेन अन्धः अप्रकाशः आदर्शः दर्पण टी.आ.का. ॥४४॥ मिव । उपमालङ्कारः । अनेन रावणापहृतसर्वस्वस्य मलिनाकृतेरिन्द्रस्यावस्थोक्ता ॥ १३ ॥ ज्योत्स्त्री चन्द्रिकयान्विता रात्रिः । तुषारमलिना सती पौर्णमास्यामपि नराजते न शोभते । एवम्भूतासा आतपश्यामा आतपापहृतवर्णा सीतेव लक्ष्यते, किन्तु सीतावन्न शोभते । व्यतिरेकालङ्कारः। “व्यति। ज्योत्स्नी तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते न तु शोभते ॥ १४॥ प्रकृत्या शीतलस्पों हिमविद्धश्च साम्प्रतम् । प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः ॥ १५॥ बाष्पच्छन्नान्यरण्यानि यवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्येनदद्भिः क्रौञ्चसारसैः ॥ १६॥ खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किञ्चिदानम्राः शालयः कनकप्रभाः ॥ १७ ॥ रेको विशेषश्चेदुपमानोपमेययोः” इति तल्लक्षणम् । अनेन सीताया भाविरावणाभिभवः तेनापि सुरनारीजनबन्दीमोक्षणार्थत्वेनातिशयश्च व्यज्यते ॥१॥ प्रकृत्या शीतलस्पर्शः वायोः शीतस्पर्श एव स्वभावः, उष्णस्पर्शस्त्वागन्तुक इति हृदयम् । साम्प्रतं हेमन्ते । हिमविद्धः हिमयुक्तः । काले प्रातःकाले। द्विगुणशीतलः द्विरावृत्त्या शीतलः । “अथो गुणः। रूपादौ सूदशिञ्जिन्योरावृत्तीन्द्रियतन्तुषु । सन्ध्यादावपि सत्त्वादौ त्यागादावुपसर्जने ॥” इति रत्नमाला। पश्चिमी वायुः पश्चिमदिग्वायुः । अनेन स्वभावतः करुणाशीतलस्य अवतारकाले देवप्रार्थनोत्तम्भितकृपस्य पुनर्मुन्याश्रमे द्विगुणितकरुणस्य रामस्य व्यापारः सूचितः ॥ १५॥ बाष्पैः उष्मभिः छन्नानि यथा कूपोदकेभ्यो निर्गच्छन्तो धूमाकारा बाष्पाः। अनेन रामसमागमानन्तरभाव्या श्रमसमृद्धिरुच्यते । बाष्पशब्देन रामकृपोच्यते । यवेत्यादिना तपस्समृद्धिः। नदद्भिरिति वेदघोपः ॥ १६ ॥ खर्जूरपुष्पाकृतिभिः तदपिशङ्गवणेः। भलिनः आदशों मुकर इव न प्रकाशते ॥ १३॥ तुषारमलिना ज्योत्स्ना कौमुदी । आतपश्यामा आतपेन वैवर्य प्राप्ता सीतेव लक्ष्यते दृश्यते । न तु शोभते सीतेवन शोभत इत्यर्थः ॥१४॥ प्रकृत्या स्वभावेनाशीतलस्पर्शः। अशीतेत्युपलक्षणमनुष्णेपि द्रष्टव्यम् । तथा चानुष्णाशीतलस्पर्श इत्यर्थः। काले प्रातःकाले हिम [विद्धस्सन द्विगुणशीतलः प्रातःकालभवत्वेन हिमविद्धत्वेन च द्विगुणशीतलत्वमित्यर्थः ॥१५॥ बाष्प ऊष्मा तेन छन्नानि प्रातःकाले कूपोदकादिष्विव बनादप्पूष्मा प्रादुर्भवतीत्यनुभव एवं प्रमाणम् ॥ १५ ॥ खरपुष्पाकृतिभिः, पीतवर्णरित्यर्थः । पूर्णतण्डुलैः श्रीहिपूर्णरिशरोमिः मनरीमिः किविदालम्बाः किविनम्राः ॥ १७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy