________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| छायासलिलदुर्भगाः दुर्भगच्छायासलिला: । आहिताग्न्यादित्वात्परनिपातः । अतिशीतच्छायासलिला इत्यर्थः । भवन्तीति शेषः । स्वभावोक्ति रलङ्कारः ॥ १० ॥ मृदुसूर्याः अक्रूरसूर्याः । पटुशीताः प्रबलशीताः । शून्यारण्याः आरण्या वनचराः तैः शून्याः आवरणरहितत्वेन शीतपीडिताः, न बहिः सञ्चरन्तीत्यर्थः । हिमध्वस्ताः हिमष्वस्तजनवन्तः, शैत्येन पीण्डीभूतशररिजना इत्यर्थः । अनेन राक्षसकृतसार्वत्रिकपीडा द्योतिता ॥ ११ ॥ मृदुसूर्याः सनीहाराः पटुशीताः समारुताः । शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम् ॥ ११ ॥ निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः । शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम् ॥ १२ ॥ रविसङ्कान्त सौभाग्यस्तुषारारुणमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥
निवृत्ताकाशशयनाः निवृत्तचन्द्रशालाद्यनावृतप्रदेशशयनाः । पुष्यनीताः पुष्यनक्षत्रयुक्ता पौर्णमासी पुष्यं तेन नीताः, तत्प्रघाना इत्यर्थः । यद्वा पुष्यः पुष्यमासः तेन नीताः पुष्यमाससन्निहिता इत्यर्थः । हिमारुणाः हिमधूसराः । शीताः शीतवाताः । वृद्धतरायामाः चतुर्विंशतिघटिकायुक्तत्वेनातिवृद्ध तरविस्तारा : त्रियामाः रात्रयः । दिनान्ते अर्धयामस्य दिनादावर्धयामस्य च दिनशेषत्वात् । अनेन स्वर्गलोकोपद्रवः तामसराक्षसवृद्धिः सज्जनक्षयः कल्यनुसारिता चोक्ता । पुष्यः कलिः ॥ १२ ॥ मन्दरश्मित्वेन संकान्तं सम्प्रवृत्तं सौभाग्यं भोग्यत्वं यस्य सः । सूर्ये स्वसौभाग्यं दत्तवानित्यर्थः सुभगः सुसेव्यः आदित्यो येषु ते तथोक्ताः । छायासलिलदुर्भगाः छायाश्च सलिलानि च दुर्भगान्यनिष्टानि येषु ते तथोक्ताः दिवसाः मध्याद्दे एवंविधा भान्तीत्यु |तरेणान्वयः ॥ १० ॥ मृदुसूर्याः ईषदुष्णसूर्याः । पटुशीताः मबलशीताः । शून्यारण्याः हिमालयपर्यन्तारण्ये प्राणिसवारविरहात् । हिमध्वस्ताः हिमोपहताः शून्या |रण्यपदसान्निध्यात् हिमध्वस्ता इत्यनेन अरण्यप्रदेशव्याप्तहिममुच्यते । मृदुसूर्यपदसानिद्ध्यात् सनीद्दारा इत्यनेन सूर्यमण्डलावारकं हिममुच्यत इत्यर्थः ॥ ११ ॥ निवृत्तानि आकाशे अनावृतप्रदेशे शयनानि भोगिनां पर्यङ्का यासु ताः । पुष्यनीताः पुष्यनक्षत्रेण नीताः प्रवर्तिताः येषु दिवसेषु पुष्यनक्षत्रं रात्रिकालं परिमाणं | बोधयतीत्यर्थः । अन्ये तु पुष्यनीताः पुण्यशब्देन पुष्यनक्षत्रयुक्ता पौर्णमासी नीता लक्ष्यते । तथा च पुष्यनक्षत्रयुक्तां पौर्णमासी नीताः गताः तदुपलक्षिता इति यावत् । कादाचित्कतया भेदधीहेतुरुपलक्षणमित्याहुः । यद्वा पुष्यनीताः पुष्पाः पोप्याः । गुणाभाव आर्षः शीतनिवारकोपचारैः पोप्या मोगिन इत्यर्थः । | तेनताः कृच्छ्रेण गमिताः त्रियामाः हिमारुणाः हिमधूसराः । शीताः शीतस्पर्शमारुतसमेताः । वृद्धतरायामाः अतिवैर्ष्याः त्रियामाः रात्रयः यान्ति गच्छन्ति ॥ १२ ॥ रविणा संक्रान्तं सौभाग्यं सुभगत्वं यस्य स तथोक्तः । रविर्हि तस्मिन् काले सुभगो न चन्द्रः । तुषारारुणमण्डलः तुषार धूसरमण्डलः निश्वासान्धः निश्वासेनान्धो टीका० सनीहारा इत्युक्त्वा हिमध्वस्ता इति पुनर्वचनं हिमवासरा इति विशेषणदर्शनार्थम् ॥ स०-हे मध्यस्त मधुरस्तो यस्तो येन स तथा तत्सम्बुद्धिः । आहिताग्न्यादित्वात्परनिपातः । आदिवसाः ईष दिवसाः अहमनन्यौन्यात् । छन्दस्तुल्यत्वादामान्तीति तिङावाऽऽन्वयः । अरण्यपुरहिमभेदाद्वाऽपौनरुक्त्यम् ॥ ११ ॥
For Private And Personal Use Only