SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir भान्ति । गजानां हि गवाक्षाकाराःभक्तीः कुर्वन्ति ॥१५॥ प्रीत्यतिशयेन वनं वर्णयति-सालैरित्यादिना । सालैः सर्जकाख्यैर्वृक्षः। तमाले कालस्कन्धाख्यैः। खर्जूरैः खर्जूरवृक्षः। पनसैः। आम्रकेः रसालभेदैः। निवारैः जलकदम्बैः। तिमिशैः नेमिद्रुमैः। पुन्नागैः। तिलकै क्षुरकवृक्षः । गुल्माः जातिप्रभृतयः । लताः माधवीप्रभृतयः। स्पन्दनैः तिमिशभेदैः। नीपैः स्थलकदम्बकैः। पर्णासैः करिअराख्यैः । लिकुचैः धवैः अश्वकर्णैः खदिरैः शमीभिः किंशुकैः पलाशैः।। सालैस्तालैस्तमालैश्च खजूरपनसाम्रकैः। निवारैस्तिमिशैश्चैव पुन्नागैश्चोपशोभिताः ॥ १६ ॥ चूतैरशोकैस्तिलकै श्वम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७॥ चन्दनैः स्पन्दनैनीपैः पर्णासैलिकुचैरपि। धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १८॥ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् । इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ १९॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा। अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः॥२०॥ पर्णशाला सुविपुलां तत्र सङ्घातमृत्तिकाम् । सुस्तम्भ मस्करैदीर्घः कृतवंशा सुशोभनाम् ॥२१॥ शमीशाखाभि रास्तीर्य दृढपाशावपाशिताम् । कुशकाशशरैः पर्णेः सुपरिच्छादितां तथा ॥ २२॥ समीकृततला रम्यां चकार लघुविक्रमः । निवासं राघवस्याथे प्रेक्षणीयमनुत्तमम् ॥ २३ ॥ पाटलैः । अत्र पूर्वश्लोकात गिरयो दृश्यन्त इत्यनुषक्तपदाभ्यामन्वयः ॥१६-१८॥इदमिति । पुण्यं पुण्यप्रदम् । मध्य पवित्रम् । एतेन अस्माभिःसहागतेन।। पक्षिणा जटायुषा ॥ १९॥ परवीरहेति क्विप् छान्दसः। आश्रमम् अङ्गणादिविस्तारखदाश्रमप्रदेशम् ॥२०॥ पर्णशालामित्यादि । तत्र आश्रमे । पर्ण शालाम् उटजम् । सङ्घातमृत्तिका भित्तीकृतमृत्तिकामित्यर्थः । मस्करैः वेणुभिः।" मस्करमस्करिणौ वेणुपरिव्राजकयोः" इति निपातनात्साधुः । कृत। वंशां कृतगृहोर्ध्वकाष्ठाम् । " वंशस्तु पृष्ठास्थि गृहोर्ध्वकाठे वेणौ गुणे कुले" इति वैजयन्ती । वेणुभयस्तम्भोपरि प्रसारिततिर्यककाष्ठामित्यर्थः । शमी सालादिपाटलान्तैस्तरुभिरावृतास्सन्तो गिरयो हश्यन्त इति पूर्वेणान्वयः॥१६-२०॥पर्णशालामिति । ससातमृत्तिको भित्त्यात्मनासकाता मृत्तिका यस्यो ता तथोक्ताम् ।। दीर्धर्मस्करैर्वेणुभिः कृतवंशामाच्छादकतृणादेर्धारणार्थ पार्श्वयोस्तिर्यक् प्रसारितेबर्वेणुभिः कृतवंशा धारितवंशाविसांधेयकपालामित्यर्थः ॥२१॥२२॥ लघुविक्रमः टीका-खर्जरः कण्टकादः । नीवारः स्थलकदम्बः ॥ १६ ॥ स्पन्दनः तिमिशविशेषः । पनसर्लिकवैरिति पाठः । धवः खदिरः । अश्वकर्णः सर्जः ॥ १८ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy