SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir पा.रा.भ. स.१५ समतलः । पुष्पितैः सातपुष्पैः । यथावत् यथायोग्यम् ॥१०॥आदित्यसङ्काशैः आदित्यविकसितैः, तद्वदुज्ज्वलेर्वा । “तुलसीकाननं यत्र यत्र टी.आ.कम पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥" इत्युक्तरीत्या नित्यसनिहितहरिभिरिति वा । सुरभिगन्धिभिः सौम्यगन्धयुक्तैः । “गन्धस्य-" . इत्यादिना इकारोन्तादेशः। “सुरभिर्मधुमासे स्पाइसन्तावपि त्रिषु । सौम्ये सुगन्धौस्त्री धेन्वाम्" इति दर्पणः। “सर्वगन्धः सर्वरसः" इत्युक्तरीत्या सुरभिणा इयमादित्यसङ्काशैः पद्मः सुरभिर्गन्धिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता ॥ ११ ॥ यथाख्यातमग स्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिता । हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ॥१२॥ नातिदूरेण चासन्ने मृगयूथनिपीडिताः। मयूरनादितारम्याः प्रांशवो बहुकन्दराः॥१३॥दृश्यन्ते गिरयःसौम्य फुल्लैस्तरुभिरावृताः॥१४॥ सौवर्णे राजतैस्तानैर्देशेदेशे च धातुभिः। गवाक्षिताइवाभान्ति गजाः परमभक्तिभिः॥१५॥ हरिणा । गन्धिभिः गन्धवद्भिरिति वा । पद्मिनी गोदावरीसमीपस्था पुष्करिणी । पद्मया शोभिता पद्मशोभिता । "ड्यापोः संज्ञाछन्दसोर्बहुलम् " इति हस्वः । हरिसान्निध्येन तन्नित्यानपायिन्या श्रिया च युक्तेत्यर्थः । अनेन लोकेन वासयोग्यत्वमुक्तम् ॥११॥ यथाख्यातमित्यादि। अगस्त्येन यथाख्यात तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ॥१२॥ नातिदूरेणचासन्न इति । अस्य गोदावर्या गिरिभिश्चान्वयः, काकाक्षिन्यायात् । मृगेत्यादि गिरिविशेषणम् । मयूर । नादिताः मयूरनादयुक्ताः । इतचप्रत्ययः। प्रांशवः उन्नताः । बहुकन्दराः विपुलगुहाः । “दरी तु कन्दरो वा स्त्री देवखातबिले गुहा" इत्यमरः । फुखैः। विकसितपुष्पैः । “अनुपसर्गात् फुल्लक्षीबकशोल्लाघाः" इति निपातितः॥१३॥१४॥ देशेदेशे नानादेशे वर्तमानः सुवर्णादिसदृशैः धातुभिः परिणतत्व दशासंक्रान्तैः गैरिकैः। “धातवो गिरिसम्भवाः" इत्यमरः । उपलक्षिताः गजाः । परमभक्तिभिः उत्कृष्टरेखालङ्कारैः । गवाक्षिताः सञातगवाक्षा इवा पमिति । पद्मिनी सरसी । पौः रक्तपः । पद्मसेविता श्वेतपद्मयुक्ता ॥११॥ यथाख्यातं तयं. गोदावरी दृश्यत इत्यनुषतः ॥ १२ ॥ मृगपूषनिपीडिताः मृग यूनिविदाः । वासार्थमागतैरिति शेषः । पाशवः उन्नताः॥ १३ ॥ दृश्यन्त इति सार्ध श्लोकमेकं वाक्यम् । फुल्लैर्षिकसितैः सौवर्णादिधातुमिरुपलक्षिता गिरयः परम भित्तिभिः नीलपीतादिवर्णरचनाभिः गवाक्षिताः चित्रिताः, अलंकृता इति यावत् । गजा इवाभान्तीत्यन्वयः ॥ १४ ॥ १५ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy