SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir सान्निध्योक्तिः॥६॥ परवनास्मि ममास्मिता तवास्मितावन्न भवति, पारतन्त्र्यैकवेषा ममास्मितेति भावः । काकुत्स्थ इदं च पारतन्त्र्यं न परत्वावस्थाया मेव किंत्ववतारावस्थायामपीत्यर्थः । इदं च पारतन्यं कियत्कालम् ? तबाइ-त्वयि वर्षशतं स्थित इति । शतशब्दः आनन्त्यवचनः । सार्वकालिकं मम । पारतन्त्र्यमिति भावः। एवं पारतन्त्र्यस्यैव मत्स्वरूपत्वेन तदनुकूलतया त्वया आज्ञापनं कर्तव्यमित्याह स्वयमिति । स्वयं रुचिरे देशे तवैव रमणीये । प्रदेशे आश्रमः क्रियतामिति मां वद ॥ ७॥ तनिक-एवमुक्तः त्वमहं चैव लक्ष्मणेति तवापि सौख्यकारिणि कस्मिंश्चिद्देशे पर्णशालां कुर्विति लक्ष्मणे स्वातन्त्र्य परवानस्मि काकुस्थ त्वयि वर्षशतं स्थिते । स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥७॥ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महात्मनः । विमृशन रोचयामास देशं सर्वगुणान्वितम् ॥८॥ सतं रुचिरमाक्रम्य देशमाश्रमकर्मणि। हस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९॥ अब देशः समः श्रीमान पुष्पितैस्तरुभिर्वृतः । इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ॥१०॥ निक्षिप्य भीरामेणोके मयि स्वातन्त्र्यनिक्षेपकाल एव रामो मां त्यक्तवान्, एतावत्सर्यन्तं ममाज्ञानेन स्वरूपहानिः कता, इतःपरं मम स्वरूपं नाम कश्चन पदार्थोस्ति किमित्येवमवस्थान्तरं प्राप्तवान् । लक्ष्मणः पारतन्पैकलक्षणः । संयताञ्जलिः इदानीं तु श्रीरामं प्रत्यालिरेव मवक्षकः। अञ्जले सर्वाभिमतसाधनत्वादिति मत्वा कताआलः सन् । सीतासमक्षं पुरुषकारभूतायाः श्रियः सन्निधौ काकुत्स्थं प्रति इदं वचनमब्रवीत् । एतादृशमुक्तवानिति ऋषिः स्तौति । सीतासमक्षमित्यनेन कैङ्क यतिसम्बन्धित्वं द्वयो| चरखण्डोक्तं लक्ष्मीविशिष्टस्यैवेति व्यञ्जितम् । परवानस्मि ममास्मिता तवास्मितावन्न भवति तच्च पारतन्ध्यं न केनाप्याकासितम् । अतएव भवता न दीयते, लोकस्य भिन्नरुचित्वात् । मयापेक्षितमेव वर्षशतम् । अत्र शतशब्द आनन्त्यवाची, तेन सार्वकालिकोक्तिः । परवानस्मीति सर्वदा परवत्त्वपतीत्या सर्वावस्थोक्तिः । क्रियतामिति मां वदेति निरुपपदक्रियापदयोगात् सर्वविधकैङ्कोपलक्षणम् । एवं कैङ्कर्यरूपफलमार्थना इयोत्तरखण्डोक्ता व्यञ्जिता॥७॥विमृशन पर्यालोचयन् ।देश कञ्चिदिति शेषः॥८॥ आक्रम्य स्वीयत्वेनाभिमन्य। आश्रमकर्मणि आश्रमनिमित्तं हस्तौ कृताञ्जलिको स्वहस्तेन गृहीत्वाब्रवीत् ।नेहातिशयकृतानुभावो इस्तग्रहणम् ॥९॥ समः । टीका-परवान् स्वदधीनः वर्षशतमित्युपलक्षणम् । एकादशसहस्राणि वर्षाणीत्यर्थः ॥ ७ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy