SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir कुलत्वेनेति केचित् । वस्तुतस्तु-धरणीधरशेषजनकत्वेन स्वकुलतुल्यत्वं वक्तुं “कर्नागं सहस्रास्यं विजज्ञे धरणीधरम्" इत्युक्तम् ॥ ३० ॥३॥M श्येनीपुत्रमिति इयं च श्येनी पूर्वोक्ताया अन्या । यद्वा कश्यपसुता श्येनीमाता कश्यपस्य पञ्चमोऽरुणः । पिता कश्यपप्रजापतिः कूटस्थ इति स्वीय द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च। तस्माज्जातोऽहमरुणात् सम्पातिस्तु ममाग्रजः ॥ ३३॥ जटायुरिति मां विद्धि श्येनीपुत्रमरिन्दम ॥ ३२॥ सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि । इदं दुर्ग हि कान्तारं मृग राक्षससेवितम् । सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥३३॥ जटायुषतं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा संकथितं पुनः पुनः ॥३४॥ स तत्र सीता परिदाय मैथिली सहैव तेनातिबलेन पक्षिणा। जगाम तां पञ्चवटीं सलक्ष्मणो रिपून दिधक्षन् शलभानिवानलः ॥ ३५॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदारण्यकाण्डे चतुर्दशः सर्गः ॥१४॥ वंशप्रभावो निवेदितः । विधिनिषेधयोस्तिर्यवभावान मातृपुत्रयोरेकवंश्यत्वादिदोषः । अयं च सृष्टिक्रमो वैवस्वतमन्वन्तरप्रकारः । अतो न पुराणा न्तरविरोधः ॥३२॥ सोऽहमिति । वाससहायः वासस्थले सीतायाः रक्षणे सहाय इत्यर्थः। यदीच्छसि, उक्तार्थमिति शेषः । सहायापेक्षत्वे हेतुमाह इद मिति । याते मृगयार्थमिति शेषः ॥ ३३ ॥ जटायुषमिति । सन्नतौ हेतुमाह पितुर्दीति ॥ ३४॥ सीतां तत्र परिदाय रक्षणाय जटायुवशां कृत्वेत्यर्थः । " यमाय वा परिददाम्यसावन्तकाय त्वा परिददाम्यसौ” इत्यादौ तथा प्रयोगात् । शलभानिवानल इत्यनेन लीलया विरोध्युन्मूलनाभिप्रायो वगम्यते ॥ ३५॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने चतुर्दशः सर्गः॥ १४॥ शुक्याः पौत्री विनतेति स्वकुलकम वक्तुं पुनः कडूमहणम्, तस्यास्सन्ततिकथनाय । अनेन प्रतिपक्षकुलेन गरुडमर्दितेन स्वकुलं प्रख्यापितं भवति । एष सृष्टिप्रकारो वैवस्वतमन्वन्तर इति विज्ञेयम् । श्येनीपुत्रमिति । ननु श्येनीशुक्यौ ताम्रायाः पुत्र्यो । श्येनीपुत्रस्तु कथं जटायुः, अरुणस्य कथं श्येनी भार्या ? उच्यते-श्येनी सन्तानपरम्परापतिता काचन श्येनी भविष्यतीत्यदोषः । विधिनिषेधयोर्मनुष्याधिकारत्वाद्वा न दोष इति ज्ञेयम् ।। ३०-३२ ॥ त्वयि याते, आश्रमान्मृगयाप्रयोज नायेति शेषः ॥३॥३४॥ सीता परिदाय परिवार्य॥३५॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाल्यायामारण्यकाण्डव्याख्यायां चतुर्दशासर्गः॥१४॥ टीका-रामस्य प्रत्ययार्थ स्वस्थानूचानसन्ततिमुक्त्वा स्वकर्तव्यं वदति-सोऽहमिति ॥ ३३ ॥ For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy