________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब.रा.भ.
अपराधराजसमागमश्चतुर्दशे-अय पञ्चवटीमित्पादि ॥३॥ वटस्थम् अगस्त्योपदिष्टवटस्थम् । पक्षिमिति मन्दसं रूपम् । को भवानिति बुवाणो सन्तौ टी.आ.का. राक्षस मेनाते, राक्षसं मत्वा को भवानित्यबूतामित्यर्थः ॥२॥ सौम्यया सौजन्यपरया। प्रीणयन्निवेति इवझन्द एवकारार्थः । आत्मन इत्यन्ते इति । करणं ज्ञेयम् । आत्मनो रामस्य ॥ ३॥४॥ द्विजः आत्मानम् आत्मनाम ॥ ५ ॥ स्वोत्पत्तिं कथयिष्यन् प्रसङ्गादादौ सर्वभूतसमुद्भवमाइ-पूर्व ।
अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः। आससाद महाकायं गृध्र भीमपराक्रमम् ॥७॥तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं ब्रुवाणी को भवानिति ॥२॥ स तौ मधुरया वाचा सौम्यया प्रीणय त्रिव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः॥३॥ स तं पितृसखं बुद्धा पूजयामास राघवः। सतस्यकुल मव्यग्रमथ पप्रच्छ नाम च ॥४॥रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् । आचचक्षे द्विजस्तस्मै कुलमात्मान मेव च ॥५॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान्मे निगदतः सर्वानादितः शृणु राघव ॥६॥ कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः । शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥७॥ स्थाणुर्मरीचिरत्रिश्च ऋतुश्चैव महा बलः । पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा ॥८॥ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव । कश्यपश्च महा तेजास्तेषामासीच्च पश्चिमः ॥९॥ प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् । षष्टिदुहितरो राम यशस्विन्यो महा यशः॥१०॥ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः । अदितिं च दितिं चैव दनुमप्यथ कालिकाम् । ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि ॥११॥
काल इत्यादि ॥६-८॥ अरिष्टनेमिरिति कश्यपविशेषणम् ॥९॥१०॥ तासां दुहितॄणां मध्ये सुमध्यमाः अष्टौ कन्याः प्रतिजग्राह पर्यणेषीत् ॥ ११॥ ITIतमिति । पतिं पक्षिणम् ॥ २ ॥ आत्मनः पितुः श्रीरामस्य तव पितुरित्यर्थः ॥३॥४॥ सर्वभूतसमुद्भवामिति रामस्य प्रत्ययार्थ स्वोत्पत्तिकथनार्य |
मपीत्यर्थः ॥५-७॥ कश्यप इति अरिष्टनेमिविशेषणम् । अनन्तरोक्तोऽरिष्टनेमिः कश्यपः तेषां पश्चिमबासीदित्यर्थः ॥ ८-१०॥ कश्यप इति । ननु 'बदौ
For Private And Personal Use Only