SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir बा.रा.भू. सध्यात्वा भाविकार्योंचितदेशं ध्यात्वा । धीरः धीमान् , निश्चितकार्योंचितदेश इत्यर्थः । धीरतरम् अतिनिश्चितं वचः ॥ १२॥ पञ्चानां वयनां समाहारः पञ्चवटी, तद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटीत्यभिविश्रुतो देश इत्यन्वयः ॥१३-१६॥ मम पितृवाक्यपरिपालनप्रकारः कथं ज्ञात इत्यत्राहविदित इति । तपःप्रभावेन पर्यालोचनकरणे निमित्तमाह नेहादिति ॥ १७॥ छन्दः अभिप्रायः । “ अभिप्रायवशौ छन्दौ " इत्यमरः । खरादि । ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तद्वचः। ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः ॥ १२॥ इतो द्वियोजने तात बहुमूलफलोदकः । देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः॥ १३॥ तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह । रंस्यसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ॥ १४॥ कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयोयो नरेन्द्रेण कृतो दशरथेन ते ॥१५॥ तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि । धन्यस्ते जनको राम स राजा | रघुनन्दन । यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः॥ १६॥ विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ । तपसश्च प्रभावेन स्नेहाद्दशरथस्य च ॥ १७॥ हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया । इह वासं प्रतिज्ञाय मया सह तपोवने ॥ १८॥ [वसन्तं त्वां जनाः सर्वे ज्ञास्यन्ति रघुनन्दन।] अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति ॥ १९॥ वधसङ्कल्प इत्यर्थः । तपसा आलोचनेन तन्मूलत्वद्वचनभङ्गया चेत्यर्थः। अलंकृतोऽयं देशश्चेति ममेह वासे प्रस्तुते किंतु व्यादिश मे देशमिति त्वदुत्त्या चेत्यर्थः । अभिप्रायवेदनकार्यमाह इहेति । यस्मात्त्वदभिप्रायो मया विदितः अतो हेतोः इह तपोवने मया सह वासं प्रतिज्ञाय अनुज्ञाय तदनन्तरमेव वक्तव्यमस्तीत्यर्थः ॥११॥ स्यात्वा मुहूर्तमिति भाविकार्यनिश्चयाय ध्यानम, ध्यानेनागामिसीतावियोगरूपकिञ्चिद्विक्षेपं दृष्ट्वापि भाविवाञ्छितरावणवधसीता वास्यादिकार्यसिद्धिदर्शनेन धीरः सन तं वचोऽब्रवीत् ॥ १२ ॥ पक्षाना वटानां समाहारः पचवटी, तदुपलक्षितत्वात् पचवटीत्यमिविश्वतः प्रसिद्धो देश:// ॥ १३-१६ ।। दशरथस्य स्नेहात कैकेयीविषयदशरथस्नेहात तव सापि वृत्तान्तः प्रवृत्त इति मम तपसः प्रभावेन विदित इत्यन्वयः। यद्वा मम तपसः प्रभावेन दशरथस्य तवोपरि परमम्नेहाच तष दशरथस्य च वृत्तान्तः पितृवचनपरिपालनाय बनवासवृत्तान्तः । दशरथवृत्तान्तः केकेयीविषयस्नेहात त्वत्प्रेरणरूपः विदित| इत्यर्थः ॥ १७॥ हृदयस्थ इति सार्धश्लोकेमकं वाक्यम् । छन्दः पूर्वप्रतिज्ञातराक्षसवधरूपाभिप्रायः। टी-एकान्तवासकौतूहल विधानामि प्रायो वा । स च मया तपसा विज्ञात 1७11 For Private And Personal Use Only
SR No.020793
Book TitleValmiki Ramayanam Part 03
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages699
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy