________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagarsuri Gyanmandir
प्रकृतिः स्वभावः। आसृष्टेः जगत्सृष्टिमारभ्य। समस्थं सुस्थं प्रति । विषमस्थं दुर्दशापन्नम् ॥ ५ ॥ शतहदानां विद्युताम् । लोलत्वं चञ्चलत्वम् । अनुगच्छन्ति चञ्चलचित्तत्वादिति भावः । शस्त्राणां तीक्ष्णतां क्रौर्यम् । अनुगच्छन्ति बहुकालागतो दबन्धच्छेदनादिति भावः । गरुडानिलयोः शैश्यम् अनु गच्छन्ति, अविचारेण कार्यकरणादिति भावः ॥ ६ ॥ एवं लोकिकस्त्रीणां दुष्टस्वभावमुक्तवा सीतायास्तद्वैलक्षण्यमाह - इयन्त्विति । न केवलं दोपरहिता, एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन । समस्थमनुरञ्जन्ति विषमस्थं त्यज्यन्ति च ॥ ५ ॥ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा । गरुडानिलयोः शैत्र्यमनुगच्छन्ति योषितः ॥ ६ ॥ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता । श्वाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥७॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह । वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ॥ ८ ॥ एवमुक्तः स मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्त मिवानलम् ॥९॥ धन्योस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवः । गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति ॥ १० ॥ किन्तु व्यादिश मे देशं सोदकं बहुकाननम् । यंत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ॥ ११ ॥ वाण्या सद्भिः प्रशंसनीया च । व्यपदेश्या पतिव्रतास्वग्रगण्या । एवं सीताप्रशंसनं वक्ष्यमाणदेवबन्दीमोचनोत्साहनाय ॥ ७ ॥ अयं देशः आश्रमप्रदेशः यद्वा भूलोकः । वत्स्यसि दश वर्षसहस्राणि दश वर्षशतानि च ॥ ८ ॥ संयताञ्जलिः बद्धाञ्जलिः ॥ ९ ॥ १० ॥ निरतः एकाग्रः ॥ ११ आसृष्टेः सृष्टिमारभ्य समस्तं धनधान्यादियुक्ततया सम्यगवस्थितं पतिमनुरञ्जन्ति अनुरक्ता भवन्ति । विषमस्थं दरिद्रं पतिम् ॥ ५ ॥ एकत्रानवस्थानाद विद्युत लोलत्वमनुगच्छन्ति । बहुकालागत स्नेहबन्धच्छेदेन शस्त्राणां तीक्ष्णता अविचारेण कार्यकरणाङ्गरुडानिलयोः शैत्यमनुगच्छन्तीत्यर्थः ॥ ६ ॥ इयं तु सकलदोषरहितत्वेन गुणसम्पत्त्या च सद्भिः प्रशंसनीया । व्यपदेश्या पतिव्रतास्वग्रगण्येत्यर्थः ॥ ७ ॥ अलंकृत इति । आश्रमोऽयमलंकृतोऽभवत् । यत्र यस्मिन्नाश्रमे त्वं निवासं करिष्यसि आधुनिकनिवासमात्रकृतालङ्कारमात्रं न पर्याप्तमित्यर्थः । यद्वा त्वदागमनमात्रेणायं देशस्त्वलंकृतोऽभवत् । इतःपरं यत्र वत्स्यसि स स्वलंकृतो भविष्यतीति किमु वक्तव्यमित्यर्यः ॥ ८ ॥ ९ ॥ मुनिपुङ्गवः भवानिति शेषः ॥ १० ॥ त्वदुक्तस्य सर्वार्थस्याऽङ्गीकारेपि किथि स- आसृष्टेः जन्मनः विवाहरूपद्वितीयजन्मारम्येति यावत् । " स्त्रीणां प्रदानकर्मैव यथोपनयनं तथा " इत्याद्युक्तेः । यहा आमुष्टे जगति । समस्यं मया सम्पदा सहिताः तिष्ठतीति समस्वस्तं सम्पद्युक्तम् । अनुरज्यन्ति अनुरागयुक्ता भवन्ति । विधमस्थं दरिद्रम् ॥ १ ॥ " अजायदन्तम्" इत्यनिशब्द एव प्राक्प्रयोज्यः, तथापि गरुडशन्दस्य मुख्यगडवाचकत्वात् अनिलशब्दस्य भूतवायुपरत्वात्तदपेक्षया गटस्याम्पार्हतत्वात्पूर्वनिपातः । यद्वा "समुद्राश्राद्धः" इत्यत्रादर्शनात् " अजायदन्तम्" इत्यस्यानित्यत्वाद्रुशब्दस्य पूर्वनिपातः ॥ ६ ॥
For Private And Personal Use Only