________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
।। ३५ ।।
वा. रा.भू. इत्युक्तेः । धर्मस्याराधनं परिपालनमेव ॥ २० ॥ अभिनिष्पतत् अभ्युत्थानं कृतवान् । अडभाव आर्षः । मुनीनामग्रतः स्थितमिति शेषः ॥२१॥२२॥ औदार्येण तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्त्यत्वेनेति शेषः । इति वचनमब्रवीदित्यन्वयः ॥ २३ ॥ अगस्त्यम् उद्दिश्येति शेषः ॥ २४ ॥ रामः अभिवाद्य रामस्तस्थावित्यन्वयः || २५ || प्रतिजग्राह अतिथित्वेनेति शेषः । उदकानि पाद्यानि ॥ २६ ॥ तस्मिन्नासीने अग्निं हुत्वा वैश्वदेवं ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् । तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ २१ ॥ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् । एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ॥ २२ ॥ औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २३ ॥ एवमुक्त्वा महाबाहुर गस्त्यं सूर्यवर्चसम्। जग्राह परमप्रीतस्तस्य पादौ परंतपः ॥ २४ ॥ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः । सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥ २५ ॥ प्रतिजग्राह काकुत्स्थमर्चयित्वासनोदकैः । कुशलप्रश्नमुक्त्वा च ह्यास्यतामिति चाब्रवीत् ॥ २६ ॥ अग्निं हुत्वा प्रदायार्घ्यमतिथीन् प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ॥ २७ ॥ प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ॥ २८ ॥ अग्रि हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन् । दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत् ॥ २९ ॥
कृत्वा । तेभ्यः अर्घ्यं दत्त्वा अतिथीन् तान् प्रतिपूज्य आचमनीय पुष्पादिभिः पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजन कन्दमूलादिकं ददौ ॥ २७ ॥ स्वयं प्रथममुपविश्य आसीनं राममुवाच ॥ २८ ॥ अयं रामव्याजेन सीतां प्रत्युपदेशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यम् । अतएव अभिनिष्पतत् अभ्युत्थानं कृतवान मुनीनामग्रतः स्थित इति शेषः । तमगस्त्यं ददर्शेत्यन्वयः ॥ २१ ॥ २२ ॥ औदार्येण तेजोविशेषजनित गाम्भीर्येण इमम गस्त्यमित्यवगच्छामि निश्चिनोमीत्यर्थः ||२३|| २४|| अभिवाद्येति । योगरूढिभेदेन रामस्यापौनरुक्त्यम् ||२५|| २६ ॥ प्रथममत्रिं हुत्वा वैश्वदेवं कृत्वा पश्चादर्यदानेन अतिथीन प्रतिपूज्य ब्राह्मणातिथीन् पूजयित्वा वानप्रस्थधर्मेण तेषामतिथीनां भोजनं ददावित्यर्थः ||२७|| २८ ॥ ननु निरपेक्षेण पूजनीयो न क्षत्रियः अहं किमर्थं पूजित इत्याशङ्कायां वानप्रस्थ इति मयैवमनुष्ठितं नान्यथेति समाधित्सुराह- अन्यथेति । तपस्वी वानप्रस्थः । अन्यथा समुदाचरन पूज्यपूजातिक्रमं कुर्वन परे लोके स्वानि
For Private And Personal Use Only
टी.आ.का.
स० १२
।। ३५ ।।